तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम्
भवन्तोऽपि विधानेन यात्रां कुर्वंतु सत्तमाः
प्रत्यग्भागे गोप्रताराद्योजनत्रयसंमिते
अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः
देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः 2.8.6.
तदाप्रभृति विप्रेंद्र तत्स्थानं भुवि पप्रथे
विभोर्गुप्तहरेस्तत्र संगमस्नानपूर्विका स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः
तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः
एवं यः कुरुते यात्रां विष्णुलोके स मोदते
कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः
उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम्
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम्
शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम्
दशकोटिसहस्राणि दशकोटिशतानि च निवसंति सदा विप्र स्कन्दादवगतं मया
देवतानां सुराणां च सिद्धानां योगिनां तथा 2.8.6.
तस्मिन्संगमसलिले नरः स्नात्वा समाहितः
हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात्
अश्वमेधसहस्रस्य वाजपेयशतस्य च
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत्
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि
तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान्
लंबतेऽवाक्छिरा यस्तु युगानामयुतं पुमान्
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि
पौषे मासि विशेषेण स्नानं बहुफलप्रदम्
पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम् ।।2.8.6.
पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम्
नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत्
आयुरारोग्यमैश्वर्यं संततीः सौख्यमुत्तमम्
यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती
जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः