उपवासपरास्तेषां पापं यास्यति संक्षयम् ॥ 7.3.36.
पुत्रहीनश्च यो मर्त्यो नारी वापि समाहिता अपुत्रो लभते शीघ्रं सुपुत्रं नात्र संशयः
सर्वशत्रुक्षयस्तस्य राज्यावाप्तिर्भविष्यति
अग्निरुवाच अत्रागत्य शुचिः श्राद्धं यः करिष्यति मानवः
अल्पमृत्युभयं तस्य न कदाचिद्भविष्यति
प्रेतोत्थं न भयं तस्य देवि क्वापि भविष्यति
विमलस्तु सदा भावि इह लोके परत्र च
योत्र दास्यति विप्रेभ्यो नीरोगः स भविष्यति
न भविष्यति लोके स वित्तहीनः कथंचन
इह लोके परे चैव तस्य भावि सदा सुखम्
वसव ऊचुः त्रिरात्रं यो नरः सम्यगुपवासं करिष्यति 7.3.36.
छत्रोपानत्प्रदातारस्तेषां लोकाः सनातनाः
भविष्यति विशेषेण ह्याश्रमे लोकविश्रुते
सप्तजन्मांतराण्येव रूपवान्स भविष्यति
चांद्रायणसहस्रस्य फलं तस्य भविष्यति
तदाज्ञया दिवं जग्मुर्देवी तत्रैव संस्थिता
अथ मर्त्त्या दिवं जग्मुर्दृष्ट्वा देवीं तदाश्रमे
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टा धरातले
ततो भीतः सहस्राक्षः संमंत्र्य गुरुणा सह 7.3.36.
व्यामोहं गृहपुत्रोत्थं तृष्णामायासमन्वितम्
चंडिकायतने पुण्ये सेवध्वं हि ममाज्ञया
एवमुक्तास्ततः सर्वे कामाद्यास्ते द्रुतं ययुः
एवं ज्ञात्वा द्रुतं गच्छ तत्र पार्थिवसत्तम
यो याति चंडिकां द्रष्टुमबुर्दं प्रति पार्थिव
तारयिष्यति नः सर्वान्स पुत्रो य इहाश्रमे
एकया लभ्यते राज्यं स्वर्गश्चैव द्वितीयया
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत्
पुनंत्येवान्यतीर्थानि स्नानदानैरसंशयम् 7.3.36.
यः शृणोति सदाख्यानमेत च्छ्रद्धासमन्वितः
यस्यैतत्तिष्ठते गेहे लिखितं पुस्तकं नृप