युक्तं कृतं महेशानि यद्धतः पापकृत्तमः 7.3.36.
त्वया दत्तं पुना राज्यं वासवस्य त्रिविष्टपे सर्वे देवाः प्रसन्नास्ते प्रदास्यंति न संशयः
आश्रमोऽत्रैव मे पुण्यो जायतां ख्यातिसंयुतः
अस्मिंश्चाहं सदा देवाः स्थास्यामि वरपर्वते
रूपेणानेन देवेशि ये त्वां द्रक्ष्यंति मानवाः
ब्रह्मज्ञानसमायुक्तास्ते भविष्यंति मानवाः
यस्माच्चंडं कृतं कर्म त्वया दानवसूदनात्
तव नाम्ना तथा ख्यात आश्रमोऽयं भविष्यति
येऽत्र कृष्ण चतुर्द्दश्यामाश्विने मासि शोभने
गयाश्राद्धफलं कृत्यं तेषां देवि भविष्यति
उपवासपरास्तेषां पापं यास्यति संक्षयम् ॥ 7.3.36.
पुत्रहीनश्च यो मर्त्यो नारी वापि समाहिता अपुत्रो लभते शीघ्रं सुपुत्रं नात्र संशयः
सर्वशत्रुक्षयस्तस्य राज्यावाप्तिर्भविष्यति
अग्निरुवाच अत्रागत्य शुचिः श्राद्धं यः करिष्यति मानवः
अल्पमृत्युभयं तस्य न कदाचिद्भविष्यति
प्रेतोत्थं न भयं तस्य देवि क्वापि भविष्यति
विमलस्तु सदा भावि इह लोके परत्र च
योत्र दास्यति विप्रेभ्यो नीरोगः स भविष्यति
न भविष्यति लोके स वित्तहीनः कथंचन
इह लोके परे चैव तस्य भावि सदा सुखम्
वसव ऊचुः त्रिरात्रं यो नरः सम्यगुपवासं करिष्यति 7.3.36.
छत्रोपानत्प्रदातारस्तेषां लोकाः सनातनाः
भविष्यति विशेषेण ह्याश्रमे लोकविश्रुते
सप्तजन्मांतराण्येव रूपवान्स भविष्यति
चांद्रायणसहस्रस्य फलं तस्य भविष्यति
तदाज्ञया दिवं जग्मुर्देवी तत्रैव संस्थिता
अथ मर्त्त्या दिवं जग्मुर्दृष्ट्वा देवीं तदाश्रमे
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टा धरातले
ततो भीतः सहस्राक्षः संमंत्र्य गुरुणा सह 7.3.36.
व्यामोहं गृहपुत्रोत्थं तृष्णामायासमन्वितम्