स्त्रियं त्वां नोत्सहे हंतुं पौरुषे च व्यवस्थितः 7.3.36.
त्रैलोक्ये नास्ति मत्तुल्यः पुमान्कश्चिच्च बालिशि
प्रगृह्य सशरं चापं वाक्यमेतदुवाच ह
कुमार्याः कामयुक्तेन तथापि शृणु मे वचः
पितामह वरं देवा मन्यंते दानवाधम
मुक्त्वैकां कामिनीं पाप त्वं कृतः पद्मयोनिना
पितामहवरः सोऽत्र जयशीलोऽसि दानव
एषा त्वामिषुभिस्तीक्ष्णैर्नयामि यमसादनम्
चतुर्भिश्चतुरो वाहाननयद्यमसादनम्
ध्वजं चिच्छेद चैकेन ततोऽन्येन हृदि क्षतः
मूर्छया सहितो राजन्किंचित्कालमधोमुखः 7.3.36.
देवी सखीसमायुक्ता सर्वदेशेष्वताडयत्
छिन्नधन्वा ततो दैत्यश्चर्मखङ्गसमन्वितः
तस्य चापततस्तूर्णं खड्गं द्वाभ्यां ह्यकृन्तयत्
विशस्त्रो विरथो राजन्स तदा दानवाधमः
ब्रह्मास्त्रं मनसि ध्यायंस्तृणं तस्यै मुमोच सः
एतस्मिन्नेव काले तु स ब्रह्मास्ते दिवौकसः
ततो देवी क्षणं ध्यात्वा तदस्त्रं पार्थिवोत्तम
ब्रह्मास्त्रे विफले जाते ह्याग्नेयं दानवोत्तमः
एवं नानाप्रकाराणि तेन मुक्तानि सा तदा
एवं निःशेषितास्त्रोऽसौ दानवो बलवत्तरः।. चकार परमां मायां दिव्यैरस्त्रैः सुरेश्वरी॥ 7.3.36.
व्यक्षिपच्च महाकायं महिषं पर्वताकृतिम्
सिंहस्कंधं च सा देवी ततस्तमध्यरोहत
शूलेन भेदयामास पृष्ठदेशे सुरेश्वरी
चर्मखड्गधरो रौद्रस्तिष्ठतिष्ठेति चाब्रवीत्
निस्त्रिंशेनाहनत्प्रोच्चैः स च प्राणैर्व्ययुज्यत
ततो जघान भूयोऽपि दानवान्सा रुषान्विता
प्रविष्टा भयसंत्रस्ताः पातालं जीवितैषिणः
विश्वेदेवास्तथा साध्या रुद्रा गुह्यककिन्नराः
समंताद्दिव्यपुष्पैश्च तां देवीं समवाकिरन्