ततस्तं लोलुपं दृष्ट्वा सा देवी कोपसंयुता 7.3.36.
अब्रवीत्परुषं वाक्यं गच्छगच्छेति चासकृत्
अथाऽसौ सचिवैः सार्द्धं समंतात्पर्यवेष्टयत्
ततो जहास सा देवी सशब्दं परमेश्वरी
सुसन्नद्धाः सशस्त्राश्च रोषेण महताऽन्विताः
ततस्ते सहिताः सर्वे महिषं समुपाद्रवन्
ततः समभवद्युद्धं गणानां दानवैः सह
अथाऽसौ महिषो रुष्टः सचिवैर्विंनिपातितैः
रथप्रवरमारुह्य सारथिं समभाषत
हत्वैनामद्य यास्यामि पारं रोषस्य दुस्तरम्
रथं तेनैव मार्गेण यत्र सा तिष्ठते ध्रुवम् 7.3.36.
बहवस्तेन मार्गेण येनासौ प्रस्थितो नृप
पपात महती चोल्का निहत्य रविमंडलम्
उपविष्टास्तथा वांता बहुमूत्रं प्रसुस्रुवुः
स तान्सर्वाननादृत्य महोत्पातान्सुदारुणान्
विमुंचंश्च शरान्नादांस्तिष्ठतिष्ठेति च ब्रुवन्
महिषं रोषसंयुक्तं यो वारयति संगरे
ततो देवी समासाद्य प्रोक्ता गर्वेण पार्थिव
न च बालिशि मे वीर्यं न सौभाग्यं न वा धनम्
नूनं तत्त्वेन जानामि अवलिप्तासि भामिनि
स्त्रियं त्वां नोत्सहे हंतुं पौरुषे च व्यवस्थितः 7.3.36.
त्रैलोक्ये नास्ति मत्तुल्यः पुमान्कश्चिच्च बालिशि
प्रगृह्य सशरं चापं वाक्यमेतदुवाच ह
कुमार्याः कामयुक्तेन तथापि शृणु मे वचः
पितामह वरं देवा मन्यंते दानवाधम
मुक्त्वैकां कामिनीं पाप त्वं कृतः पद्मयोनिना
पितामहवरः सोऽत्र जयशीलोऽसि दानव
एषा त्वामिषुभिस्तीक्ष्णैर्नयामि यमसादनम्
चतुर्भिश्चतुरो वाहाननयद्यमसादनम्
ध्वजं चिच्छेद चैकेन ततोऽन्येन हृदि क्षतः