यदि स्यात्तव कांतोऽसौ त्वं च तस्य तथा प्रिया 7.3.36.
एवमुक्ता ततस्तेन देवी वचनमब्रवीत्
अवध्यः सर्वथा दूतः सर्वत्र परिकीर्तितः
गत्वा ब्रूहि दुराचारं महिषं दानवाधमम्
वधार्थं ते समुद्योग एष सर्वो मया कृतः
भयेन महताविष्टस्तस्या रूपेण विस्मितः तस्याश्चैव तथाऽऽलापानस्पृहत्वं च कृत्स्नशः
तच्छुत्वा महिषो राजन्कामबाणप्रपीडितः
अर्बुदे पर्वते सेनां कल्पयस्व सुदुर्धराम्
ततोऽसौ कल्पयामास चतुरंगां वरूथिनीम्
ततो द्विपाश्च संनद्धा दृश्यंतेऽधिष्ठिता भटैः
अश्वाश्चैवाप्यकल्माषा वायुवेगाः सुवर्चसः 7.3.36.
विमानप्रतिमाकारा रथास्तेन प्रकल्पिताः
पत्तयश्च महाकाया महेष्वासा महाबलाः
लक्षमेकं मतंगानां रथानां त्रिगुणं ततः
ततश्चार्बुदमासाद्य वेष्टयित्वा स दूरतः
ध्यानस्थां वीक्ष्य तां देवीं कन्दर्पशरपीडितः
श्रुत्वा तवेदृशं रूपमहं प्राप्तो वरानने
षष्टिभार्यासहस्राणि मम संति शुचिस्मिते
अनर्हं ते तपो बाले भुंक्ष्व भोगान्यथेप्सितान्
एवमुक्ताऽपि सा तेन नोत्तरं प्रत्यभाषत
ततस्तं लोलुपं दृष्ट्वा सा देवी कोपसंयुता 7.3.36.
अब्रवीत्परुषं वाक्यं गच्छगच्छेति चासकृत्
अथाऽसौ सचिवैः सार्द्धं समंतात्पर्यवेष्टयत्
ततो जहास सा देवी सशब्दं परमेश्वरी
सुसन्नद्धाः सशस्त्राश्च रोषेण महताऽन्विताः
ततस्ते सहिताः सर्वे महिषं समुपाद्रवन्
ततः समभवद्युद्धं गणानां दानवैः सह
अथाऽसौ महिषो रुष्टः सचिवैर्विंनिपातितैः
रथप्रवरमारुह्य सारथिं समभाषत
हत्वैनामद्य यास्यामि पारं रोषस्य दुस्तरम्