अथाऽसौ महिषादेशाद्दूतो गत्वार्बुदाचलम् 7.3.36.
तस्मै निवेदयामास महिषाय सविस्मयः
देवतेजोभवा कन्या साऽद्यापि वरवर्णिनी
एवं तत्र भवंती स्म पृष्टाः सर्वे तपस्विनः
तस्या रूपं वयः कांतिर्वर्णितुं नैव शक्यते
दूतं संप्रेषयामास दानवं च विचक्षणम्
विचक्षण द्रुतं गत्वा मदर्थे तां तपस्विनीम्
अथाऽसौ प्रययौ शीघ्रं प्रणिपत्य विचक्षणः प्रणम्य विनयोपेतो वाक्यमेतदुवाच ताम्
महिषो नाम विख्यातस्त्रैलोक्याधिपतिर्बली
स त्वां वांछति कल्याणि धर्मपत्नीं स्वधर्मतः
यदि स्यात्तव कांतोऽसौ त्वं च तस्य तथा प्रिया 7.3.36.
एवमुक्ता ततस्तेन देवी वचनमब्रवीत्
अवध्यः सर्वथा दूतः सर्वत्र परिकीर्तितः
गत्वा ब्रूहि दुराचारं महिषं दानवाधमम्
वधार्थं ते समुद्योग एष सर्वो मया कृतः
भयेन महताविष्टस्तस्या रूपेण विस्मितः तस्याश्चैव तथाऽऽलापानस्पृहत्वं च कृत्स्नशः
तच्छुत्वा महिषो राजन्कामबाणप्रपीडितः
अर्बुदे पर्वते सेनां कल्पयस्व सुदुर्धराम्
ततोऽसौ कल्पयामास चतुरंगां वरूथिनीम्
ततो द्विपाश्च संनद्धा दृश्यंतेऽधिष्ठिता भटैः
अश्वाश्चैवाप्यकल्माषा वायुवेगाः सुवर्चसः 7.3.36.
विमानप्रतिमाकारा रथास्तेन प्रकल्पिताः
पत्तयश्च महाकाया महेष्वासा महाबलाः
लक्षमेकं मतंगानां रथानां त्रिगुणं ततः
ततश्चार्बुदमासाद्य वेष्टयित्वा स दूरतः
ध्यानस्थां वीक्ष्य तां देवीं कन्दर्पशरपीडितः
श्रुत्वा तवेदृशं रूपमहं प्राप्तो वरानने
षष्टिभार्यासहस्राणि मम संति शुचिस्मिते
अनर्हं ते तपो बाले भुंक्ष्व भोगान्यथेप्सितान्
एवमुक्ताऽपि सा तेन नोत्तरं प्रत्यभाषत