अयं नाम्ना गुप्तहरिर्देवो भुवनविश्रुतः
अत्र यः प्राणिनां श्रेष्ठः पूजायज्ञजपादिकम्
अत्र यः कुरुते दानं यथाशक्त्या जितेन्द्रियः
अत्र मत्प्रीतये देवाः प्राणिभिर्धर्मकांक्षिभिः
स्वर्णशृंगी रौप्यखुरी वस्त्रद्वयसमावृता 2.8.6.
रत्नपुच्छा दुग्धवती घंटाभरणभूषिता
द्विजाय वेदविज्ञाय गुणिने निर्मलात्मने
ब्राह्मणाय च गौर्देया सर्वत्रसुखमश्नुते
मत्प्रीतयेऽत्र दातव्या निर्मलेनांतरात्मना
स्नातं यैश्च विशुद्ध्यर्थमत्र मद्भक्तितत्परैः
तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम्
भवन्तोऽपि विधानेन यात्रां कुर्वंतु सत्तमाः
प्रत्यग्भागे गोप्रताराद्योजनत्रयसंमिते
अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः
देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः 2.8.6.
तदाप्रभृति विप्रेंद्र तत्स्थानं भुवि पप्रथे
विभोर्गुप्तहरेस्तत्र संगमस्नानपूर्विका स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः
तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः
एवं यः कुरुते यात्रां विष्णुलोके स मोदते
कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः
उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम्
विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम्
शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम्
दशकोटिसहस्राणि दशकोटिशतानि च निवसंति सदा विप्र स्कन्दादवगतं मया
देवतानां सुराणां च सिद्धानां योगिनां तथा 2.8.6.
तस्मिन्संगमसलिले नरः स्नात्वा समाहितः
हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात्
अश्वमेधसहस्रस्य वाजपेयशतस्य च
सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत्
अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि