पद्मपत्रविशालाक्षा मध्यक्षामाः शुचिस्मिताः
किं चात्र बहुनोक्तेन यत्किंचित्तत्र पर्वते सर्वलोकोत्तरास्तत्र दृश्यंते पर्वतोत्तमे ॥ 7.3.36.
दशयोजनविस्तारो द्वाभ्यां संहितपर्वतः
तत्राऽहं कौतुकाविष्ट इतश्चेतश्च वीक्षयन्
न देवी नापि गंधर्वी नासुरी न च मानुषी
रतिः प्रीतिरुमा लक्ष्मीः सावित्री च सरस्वती
अहं दृष्ट्वा तथा रूपां नारीं कामेन पीडितः
ततो धैर्यमवष्टभ्य मया मनसि चिंतितम्
यस्या दर्शनमात्रेण कामो मे हृदि वर्द्धितः
चिरकालं तपस्तप्तं ब्रह्मचर्येण वै मया तस्माद्गच्छामि चान्यत्र यावन्न विकृतिर्भवेत्
नारीनाम तपोविघ्नं पूर्वं सृष्टं स्वयंभुवा
तावद्धैर्यं तपः सत्यं तावत्स्थैर्यं कुलत्रपा 7.3.36.
एतत्संचिंत्य बहुधा निमील्य नयने ततः
श्रवणादपि राजेंद्र पुनः पप्रच्छ तं मुनिम्
यस्याः संदर्शनादेव भवानेव स्मरान्वितः
देवी वा मानुषी वापि यक्षिणी पन्नगी मुने
एतन्मे वर्त्तते वित्ते सा कुमारी यशस्विनी
सोऽहं यास्यामि दैत्येश ब्रह्मलोकं सनातनम्
एवमुक्त्वा ततो राजन्ब्रह्मलोकं गतो मुनिः
गत्वा भवान्द्रुतं तत्र दृष्ट्वा तां च वरांगनाम्
अथाऽसौ महिषादेशाद्दूतो गत्वार्बुदाचलम् 7.3.36.
तस्मै निवेदयामास महिषाय सविस्मयः
देवतेजोभवा कन्या साऽद्यापि वरवर्णिनी
एवं तत्र भवंती स्म पृष्टाः सर्वे तपस्विनः
तस्या रूपं वयः कांतिर्वर्णितुं नैव शक्यते
दूतं संप्रेषयामास दानवं च विचक्षणम्
विचक्षण द्रुतं गत्वा मदर्थे तां तपस्विनीम्
अथाऽसौ प्रययौ शीघ्रं प्रणिपत्य विचक्षणः प्रणम्य विनयोपेतो वाक्यमेतदुवाच ताम्
महिषो नाम विख्यातस्त्रैलोक्याधिपतिर्बली
स त्वां वांछति कल्याणि धर्मपत्नीं स्वधर्मतः