ततस्तेजोमयी कन्या तत्र जाता स्वरूपिणी
इंद्रस्तस्यै ददौ वज्रं स्वपाशं च जलेश्वरः
अन्ये चैव गणाः सर्वे निजशस्त्राणि हर्षिताः 7.3.36.
नमस्ते पद्मपत्राक्षि नमस्ते जगदम्बिके
नमस्ते विश्वरूपे च नमस्ते विश्वसंस्तुते
क्षमा ऋद्धिः प्रभा स्वाहा सावित्री कमला सती
भैरवी भीषणाकारा चंडमुंडासिधारिणी
मद्यमांसप्रिया नित्यं भक्तत्राणपरायणा
तानब्रवीद्वरं सर्वा गृह्णंतु मम देवताः
अवध्यः सर्वभूतानां देवानां च तथा कृतः
मुक्त्वैकां योषितं देवि तस्मात्त्वं विनिपातय
अहं तं सूदयिष्यामि समये पर्युपस्थिते 7.3.36.
देवी तत्रैव संहृष्टा स्थिता पर्वतरोधसि
तत्र देवीं च संदृष्ट्वा तीर्थयात्रापरायणः
तत्र दृष्ट्वा मुनिं प्राप्तं प्रणम्य महिषासुरः
ततस्तं पूजयामास मधुपर्कार्घविष्टरैः
कुतो भवानितः प्राप्तः किमर्थं मुनिसत्तम
अहं भृत्यसमायुक्तः किमनेन द्विजोत्तम
अभिनंदामि ते सर्वमेतत्त्वय्युपपद्यते । निःस्पृहा हि वयं नित्यं मुनिधर्मं समाश्रिताः
कौतूहलादिह प्राप्तश्चिरात्ते दर्शनं गतः
दैवं वा मानुषं वापि दानवा लंभिता विभो
यत्र दृष्टं क्वचित्पूर्वं त्रैलोक्ये सचराचरे ॥ 7.3.36.
अस्त्यर्बुद इति ख्यातः पर्वतो धरणीतले
बकुलैश्चंपकैश्चाम्रैरशोकैः कर्णिकारकैः
सरलैः पनसैर्वृक्षैस्तिंदुकैः करवीरकैः
पुष्पजातिविशेषैश्च सुगंधैरप्यनेककैः
न स वृक्षो न सा वल्ली नौषधी सा धरातले
पक्षिणो मधुरारावाश्चकोरशिखिचातकाः
येषां शब्दं समाकर्ण्य मुनयोऽपि समाहिताः
निर्झराणि सुरम्याणि नद्यश्च विमलोदकाः