पुलस्त्य उवाच एवमुक्ताः सुराः सर्वे हर्षेण महतान्विताः
तत्र स्नाताञ्छुचीन्सर्वान्दीक्षयामास गीष्पतिः
सार्धयामत्रयं तत्र परिवारसमन्विताः 7.3.36.
मंत्रेण विविधेनैव चारुस्तोत्रेण भक्तितः
निर्ममा निरहंकारा गुरुभक्तिपरायणाः
एवं संतिष्ठमानानां तेषां पार्थिवसत्तम
दीपज्योतिःसमावेशात्तेषां गात्रेषु पार्थिव
द्वादशार्कप्रभा जाताः षण्मासाभ्यंतरेण ते
मंडलं रचयामास सर्वसिद्धिप्रदायकम्
तेषां शरीरगं तेजः शक्तियैर्मंत्रसत्तमैः
ततस्तेजोमयी कन्या तत्र जाता स्वरूपिणी
इंद्रस्तस्यै ददौ वज्रं स्वपाशं च जलेश्वरः
अन्ये चैव गणाः सर्वे निजशस्त्राणि हर्षिताः 7.3.36.
नमस्ते पद्मपत्राक्षि नमस्ते जगदम्बिके
नमस्ते विश्वरूपे च नमस्ते विश्वसंस्तुते
क्षमा ऋद्धिः प्रभा स्वाहा सावित्री कमला सती
भैरवी भीषणाकारा चंडमुंडासिधारिणी
मद्यमांसप्रिया नित्यं भक्तत्राणपरायणा
तानब्रवीद्वरं सर्वा गृह्णंतु मम देवताः
अवध्यः सर्वभूतानां देवानां च तथा कृतः
मुक्त्वैकां योषितं देवि तस्मात्त्वं विनिपातय
अहं तं सूदयिष्यामि समये पर्युपस्थिते 7.3.36.
देवी तत्रैव संहृष्टा स्थिता पर्वतरोधसि
तत्र देवीं च संदृष्ट्वा तीर्थयात्रापरायणः
तत्र दृष्ट्वा मुनिं प्राप्तं प्रणम्य महिषासुरः
ततस्तं पूजयामास मधुपर्कार्घविष्टरैः
कुतो भवानितः प्राप्तः किमर्थं मुनिसत्तम
अहं भृत्यसमायुक्तः किमनेन द्विजोत्तम
अभिनंदामि ते सर्वमेतत्त्वय्युपपद्यते । निःस्पृहा हि वयं नित्यं मुनिधर्मं समाश्रिताः
कौतूहलादिह प्राप्तश्चिरात्ते दर्शनं गतः