उद्द्योतं कुरुते सूर्यो यादृक्तस्याभिसंमतः
लोकपालास्तथा सर्वे तस्य कर्म प्रचक्रिरे
कस्यचित्त्वथ कालस्य सर्वे देवाः समेत्य तु 7.3.36.
भगवान्किं वयं कुर्मः कुत्र यामो निराश्रयाः
एवमुक्तो गुरुर्द्देवैर्ध्यात्वा कालं चिरं नृप
अवध्यः सर्वदेवानां मुक्त्वेकां योषितं सुराः
तपोऽर्थं तत्र संसिद्धिर्जायतामचिराद्धि वः
आराधयध्वमेकांते यया व्याप्तमिदं जगत्
करिष्यति समुद्योगमवतारसमुद्भवम्
अहं वः कीर्तयिष्यामि शक्तियं मंत्रमुत्तमम्
पुलस्त्य उवाच एवमुक्ताः सुराः सर्वे हर्षेण महतान्विताः
तत्र स्नाताञ्छुचीन्सर्वान्दीक्षयामास गीष्पतिः
सार्धयामत्रयं तत्र परिवारसमन्विताः 7.3.36.
मंत्रेण विविधेनैव चारुस्तोत्रेण भक्तितः
निर्ममा निरहंकारा गुरुभक्तिपरायणाः
एवं संतिष्ठमानानां तेषां पार्थिवसत्तम
दीपज्योतिःसमावेशात्तेषां गात्रेषु पार्थिव
द्वादशार्कप्रभा जाताः षण्मासाभ्यंतरेण ते
मंडलं रचयामास सर्वसिद्धिप्रदायकम्
तेषां शरीरगं तेजः शक्तियैर्मंत्रसत्तमैः
ततस्तेजोमयी कन्या तत्र जाता स्वरूपिणी
इंद्रस्तस्यै ददौ वज्रं स्वपाशं च जलेश्वरः
अन्ये चैव गणाः सर्वे निजशस्त्राणि हर्षिताः 7.3.36.
नमस्ते पद्मपत्राक्षि नमस्ते जगदम्बिके
नमस्ते विश्वरूपे च नमस्ते विश्वसंस्तुते
क्षमा ऋद्धिः प्रभा स्वाहा सावित्री कमला सती
भैरवी भीषणाकारा चंडमुंडासिधारिणी
मद्यमांसप्रिया नित्यं भक्तत्राणपरायणा
तानब्रवीद्वरं सर्वा गृह्णंतु मम देवताः
अवध्यः सर्वभूतानां देवानां च तथा कृतः