मामु ह्रदे नरः स्नात्वा दृष्ट्वा तं मुद्गलेश्वरम् एतस्मात्कारणाद्राजन्मामुह्रदमिति स्मृतम्
तत्तीर्थं सर्वतीर्थानां प्रवरं लोकविश्रुतम्
मोक्षकामो विशेषेण य इच्छेत्परमं पदम्
कस्मिन्काले फलं तेन किं दृष्टेन भवेन्नृणाम्
यां श्रुत्वा मानवः सम्यक्सर्वपापैः प्रमुच्यते
पुरा देवयुगे राजन्महिषोनाम दानवः
तेन शक्रादयो देवा जिताः संख्ये सहस्रशः
त्रैलोक्यं स वशे कृत्वा स्वयमिन्द्रो बभूव ह
आदित्या वसवो रुद्रा नासत्यौ मरुतां गणाः
वह्निर्भयं समापन्नस्त्यक्त्वा देवगणांस्तदा
उद्द्योतं कुरुते सूर्यो यादृक्तस्याभिसंमतः
लोकपालास्तथा सर्वे तस्य कर्म प्रचक्रिरे
कस्यचित्त्वथ कालस्य सर्वे देवाः समेत्य तु 7.3.36.
भगवान्किं वयं कुर्मः कुत्र यामो निराश्रयाः
एवमुक्तो गुरुर्द्देवैर्ध्यात्वा कालं चिरं नृप
अवध्यः सर्वदेवानां मुक्त्वेकां योषितं सुराः
तपोऽर्थं तत्र संसिद्धिर्जायतामचिराद्धि वः
आराधयध्वमेकांते यया व्याप्तमिदं जगत्
करिष्यति समुद्योगमवतारसमुद्भवम्
अहं वः कीर्तयिष्यामि शक्तियं मंत्रमुत्तमम्
पुलस्त्य उवाच एवमुक्ताः सुराः सर्वे हर्षेण महतान्विताः
तत्र स्नाताञ्छुचीन्सर्वान्दीक्षयामास गीष्पतिः
सार्धयामत्रयं तत्र परिवारसमन्विताः 7.3.36.
मंत्रेण विविधेनैव चारुस्तोत्रेण भक्तितः
निर्ममा निरहंकारा गुरुभक्तिपरायणाः
एवं संतिष्ठमानानां तेषां पार्थिवसत्तम
दीपज्योतिःसमावेशात्तेषां गात्रेषु पार्थिव
द्वादशार्कप्रभा जाताः षण्मासाभ्यंतरेण ते
मंडलं रचयामास सर्वसिद्धिप्रदायकम्
तेषां शरीरगं तेजः शक्तियैर्मंत्रसत्तमैः