न मया सुकृतं भूरि कृतं मर्त्त्ये कथंचन
तथा च पतमानांश्च दृष्ट्वा चान्यान्सहस्रशः
एतत्ते सर्वमाख्यातं गुणदोषसमुद्भवम्
तेन स्वर्गेण मे दूत नैव कार्यं कथंचन
वाच्यस्त्वया ममादेशाद्देवराजः स्फुटं वचः
तत्कर्माऽहं करिष्यामि येन नो पतनाद्भयम्।. साधयिष्यामि ताँल्लोकान्ये सदा पातवर्जिताः
पुलस्त्य उवाच एवमुक्त्वा नृपश्रेष्ठ मुद्गलः स्वर्गनिःस्पृहः
श्रुत्वा दूतोऽपि शक्रस्य तस्य वाक्यं सविस्तरम्
देवदूताप्रमाणं च विमानं हि त्वया कृतम् 7.3.35.
तस्मात्तत्र द्रुतं गत्वा बलादानय तं मुनिम्
पुलस्त्य उवाच शक्रस्य वचनं श्रुत्वा देवदूते भयान्वितः
मुद्गलोऽपि विमानस्थं पुनर्दृष्ट्वा समागतम्
स तस्य वचनेनैव स्तंभितो लिखितो यथा
चिरकालगतं ज्ञात्वा दूतं तु त्रिदशाधिपः
अथ दृष्ट्वा तदा दूतं स्तंभितं मुद्गलेन तु
एतस्मिन्नेव काले तु उत्पातास्तत्र दारुणाः तान्दृष्ट्वा चिन्तयामास मुद्गलो विस्मयान्वितः
अथ दृष्ट्वांबरगतं वज्रोद्यतकरं हरिम्
तत्र शक्रः स्तुतिं चक्रे भग्नोत्साहो नृपोत्तम
स्वर्गे वा यदि वा मर्त्त्ये तिष्ठ त्वं स्वेच्छया द्विज 7.3.35.
वरं वरय भद्रं ते नित्यं यो मनसि स्थितः
दर्शनं ते सहस्राक्ष स्वप्नेष्वपि सुदुर्लभम्
अवश्यं यदि मे देयो वरो वृत्रनिषूदन
मा मु ह्रदं समागत्य दूतः प्रोक्तो मया यतः
पिण्डदानात्परां प्रीतिं लभंतां पितरोऽत्र हि
वरिष्ठं नात्र सन्देहो मत्प्रसादाद्विजोत्तम
अत्र ये फाल्गुने मासि पौर्णमास्यां समाहिताः
पिण्डदानाद्गयातुल्यं लप्स्यंते फलमुत्तमम्
मुद्गलोऽपि परं ब्रह्म चिंतयन्ह्यनिशं ततः ॥ 7.3.35.
शुक्लध्यानपरो भूत्वा मोक्षं प्राप्तस्ततोऽक्षयम्
अत्र गाथा पुरा गीता नारदेन महात्मना