तत्र स्नातो नरः सम्यक्छ्रद्धावान्सुसमाहितः
तस्य पश्चिमदिग्भागे लिंगमस्ति महीपते
स्नात्वा मामुह्रदे पुण्ये यस्तल्लिंगं च पश्यति स प्राप्नोति परं श्रेयः सर्वतीर्थेषु दुर्लभम्
यस्तत्र कुरुते श्राद्धं दक्षिणां मूर्तिमाश्रितः
तत्र दानं प्रशंसंति नीवाराणां महर्षयः
मुद्गलस्याश्रमं ब्रूहि मम सर्वं विधानतः
पुलस्त्य उवाच तत्रस्थस्य पुरा राजन्मुद्गलस्य महात्मनः
सोऽब्रवीद्देवराज्ञाहं प्रेषितो मुनिसत्तम
तान्मे वद करिष्येऽहं श्रुत्वा वै यत्क्षमं भवेत्॥ 7.3.35.
ब्रूहि तान्सकलान्दूत त्वागमिष्याम्यहं ततः
पुण्यैः स्वकैर्द्विजश्रेष्ठ समागच्छेरिदं ततः
करिष्येऽहं तपो भूरि पूजयिष्ये महेश्वरम्
संक्षेपात्कथयिष्यामि यदि ते निश्चयः परः
नंदनादीनि रम्याणि तत्र देववनानि च
बुभुक्षा नैव तृष्णा च निद्रालस्ये न च प्रभो रमयंति नरं तत्र गीतैर्नृत्यैरनेकशः
एवं च वसते तत्र जनः स्वर्गे तपोधन
एक एव मुने दोषः स्वर्लोके प्रतिभाति मे
न पुण्यं लभते तत्र कर्तुं विप्र कथंचन
यदत्र क्रियते कर्म शुभं तत्रोप भुज्यते 7.3.35.
बहुतेजोन्वितान्स्वर्गे ह्यल्पपुण्यो द्विजोत्तम
न मया सुकृतं भूरि कृतं मर्त्त्ये कथंचन
तथा च पतमानांश्च दृष्ट्वा चान्यान्सहस्रशः
एतत्ते सर्वमाख्यातं गुणदोषसमुद्भवम्
तेन स्वर्गेण मे दूत नैव कार्यं कथंचन
वाच्यस्त्वया ममादेशाद्देवराजः स्फुटं वचः
तत्कर्माऽहं करिष्यामि येन नो पतनाद्भयम्।. साधयिष्यामि ताँल्लोकान्ये सदा पातवर्जिताः
पुलस्त्य उवाच एवमुक्त्वा नृपश्रेष्ठ मुद्गलः स्वर्गनिःस्पृहः
श्रुत्वा दूतोऽपि शक्रस्य तस्य वाक्यं सविस्तरम्
देवदूताप्रमाणं च विमानं हि त्वया कृतम् 7.3.35.
तस्मात्तत्र द्रुतं गत्वा बलादानय तं मुनिम्