ये च त्वां पूजयिष्यंति मानवा मोह संयुताः
केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया 7.3.34.
एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम्
सत्यसंभाषणादेव वरं वरय सुव्रत
न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि
लिंगमेतदनंताख्यं लघुतां नय मा चिरम्
अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे
एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे
मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः
कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः
वासुदेवोऽपि तल्लिंगं गृहीत्वाऽर्बुदपर्वते
कृष्णतीर्थं ततो जातं नाम्ना हि धरणीतले 7.3.34.
स्नात्वा कृष्णह्रदे पुण्ये तल्लिंगं पश्यते तु यः
तथा च सर्वदानानां निष्कामः प्राप्नुयात्फलम्
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत्
एकादश्यां महाराज निराहारो जितेन्द्रियः
प्रभाते कुरुते श्राद्धं यस्तु श्रद्धासमन्वितः
तिलान्कृष्णान्नरस्तत्र ब्राह्मणेभ्यो ददाति यः
दर्शनादेव राजेन्द्र कृष्णतीर्थस्य मानवः
मामुह्रदमिति ख्यातं तस्मिन्पर्वतरोधसि
तत्र स्नातो नरः सम्यक्छ्रद्धावान्सुसमाहितः
तस्य पश्चिमदिग्भागे लिंगमस्ति महीपते
स्नात्वा मामुह्रदे पुण्ये यस्तल्लिंगं च पश्यति स प्राप्नोति परं श्रेयः सर्वतीर्थेषु दुर्लभम्
यस्तत्र कुरुते श्राद्धं दक्षिणां मूर्तिमाश्रितः
तत्र दानं प्रशंसंति नीवाराणां महर्षयः
मुद्गलस्याश्रमं ब्रूहि मम सर्वं विधानतः
पुलस्त्य उवाच तत्रस्थस्य पुरा राजन्मुद्गलस्य महात्मनः
सोऽब्रवीद्देवराज्ञाहं प्रेषितो मुनिसत्तम
तान्मे वद करिष्येऽहं श्रुत्वा वै यत्क्षमं भवेत्॥ 7.3.35.
ब्रूहि तान्सकलान्दूत त्वागमिष्याम्यहं ततः