ततो मूर्छाभिसंतप्तो दह्यमानोऽद्भुताग्निना
तथा लिंगं समासाद्य भक्त्या पूजा कृता ततः 7.3.34.
ब्रह्माऽपि व्योममार्गेण गतो हंसविमानतः
ततो वर्षसहस्रांते केतकीं सोऽप्यपश्यत
क्व त्वया गम्यते ब्रह्मन्निरालंबे महापथि
लिंगस्यास्य हि पर्यंतं यो लभिष्यति चावयोः
स ज्यायानितरो हीनो ह्येतदुक्तं पिनाकिना
लब्ध्वा लिंगस्य पर्यंतं यास्यामि क्षितिमंडले
व्यर्थश्रमोऽसि लोकेश नांतो लिंगस्य विद्यते
लिंगमूर्ध्नः पतंत्या मे कालो जातो महाद्युते
यावत्कालेन हंसस्ते योजनं संप्रगच्छति
तस्मान्निवर्तनं युक्तं मम वाक्येन ते विभो 7.3.34.
ततो हृष्टमना भूत्वा गृहीत्वा तां चतुर्मुखः दर्शयामास तां विष्णोरेषा लिंगस्य मूर्धतः
मयाऽऽनीता शुभा माला लब्धश्चांतं चतुर्भुज
नाहं शक्तः परं पारं गंतुं ब्रह्मन्कथंचन
यदि त्वयाऽस्य पर्यंतो लब्धो ब्रह्मन्कथंचन
नान्यथा चास्य पर्यंतो दृश्यते केन चित्क्वचित्
कोपं चक्रे महाराज ब्रह्माणं प्रति तत्क्षणात्
अथाह दर्शनं गत्वा धिग्धिग्व्यर्थप्रजल्पक
यस्मात्त्वया मृषा प्रोक्तं मम पर्यंतदर्शनम्
ये च त्वां पूजयिष्यंति मानवा मोह संयुताः
केतक्या च तथा प्रोक्तं यस्मात्तस्मात्सुदुष्टया 7.3.34.
एवं शापो तयोर्दत्त्वा देवः प्रोवाच केशवम्
सत्यसंभाषणादेव वरं वरय सुव्रत
न चापुण्यवतां देव त्वं तुष्टिमधिगच्छसि
लिंगमेतदनंताख्यं लघुतां नय मा चिरम्
अब्रवीत्केशवं भूयः शृणु वाक्यमिदं हरे
एतन्मेध्यतमे देशे लिंगं स्थापय मे हरे
मम तेजोविनिर्दग्धः कृष्णत्वं हि यतो गतः
कृष्णकृष्णेति ते नाम प्रातरुत्थाय मानवः