पार्थानाम्न्यभवत्साध्वी देवलस्य प्रिया सती
सा पूर्वमभवद्वंध्या ऋषिपत्नी यशस्विनी
वायुभक्षा निराहारा समचित्ताऽऽसने स्थिता
उद्भिद्य धरणीपृष्ठं सहसा लिंगमुत्थितम्
पूजयैतन्महाभागे शिवलिंगं सुपावनम्
यो यं काममभिध्यायन्पूजयिष्यति मानवः
पार्थेश्वराख्यमेतद्धि लोके ख्यातिं गमिष्यति
ततः सा विस्मयाविष्टा पूजयामास तत्तदा
ततः प्रभृति तल्लिंगं विख्यातं धरणीतले 7.3.33.
तत्र स्नात्वा नरः सम्यग्यस्तं पश्यति भावतः
शुक्लपक्षे चतुर्द्दश्यां जागरं तस्य चाग्रतः
पिंडनिर्वापणं तत्र यः करोति समाहितः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे पार्थेश्वरमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः
यत्र सन्निहितो नित्यं स्वयं विष्णुर्महीपते कस्मिन्काले मुने ब्रूहि सर्वं विस्तरतो मम
चंद्रार्कपवने नष्टे ज्योतिषि प्रलयं गते
ततो युगसहस्रांते विबुद्धः कमलासनः
भ्रमंश्चापि चतुर्वक्त्रो यावत्पश्यति दूरतः
तं चोवाच चतुर्वक्त्रः कस्त्वं केन विनिर्मितः
तमुवाचाथ गोविंदः प्रहसञ्छ्लक्ष्णया गिरा
अहमाद्यः पुमानेको मया सृष्टो भवानपि
अब्रवीत्परुषं वाक्यं भर्त्सयंश्च पुनःपुनः
सृष्टस्त्वं हि मया मूढ प्रथमोऽहमसंशयम् 7.3.34.
एवं विवदमानौ तौ मिथो राजन्महाद्युती
मुष्टिभिर्बाहुभिश्चैव नखैर्दंतैर्विकर्षणैः
ततो वर्षसहस्रांते तयोर्मध्ये नृपोत्तम
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी
एतन्माहेश्वरं लिंगं योऽस्य चांते गमिष्यति
अधोभागं व्रजत्वेक एकश्चोर्द्ध्वं ममाज्ञया
विदार्य वसुधां कृष्णोऽप्यधस्तात्सत्वरं गतः तावत्कालाग्निरुद्रस्तु दृष्टस्तेन महात्मना
गंतुमिच्छंस्ततोऽधस्ताद्यावद्वेगं करोति सः