पत्तनानि विचित्राणि ग्रामाणि नगराणि च
ततः कुशेश्वरं देवं विधाय च लवेश्वरम्
निवेद्य ब्राह्मणेन्द्राणां कृत्वा वृत्तिं यथोचिताम्
प्रेता लिंगोद्भवां भूमिं पूरयामासुरेव हि
यत्किंचित्तत्र संस्थं तु आद्यतीर्थं सुरालयम्
ततः क्षेमं समुत्पन्नं क्षेत्रे तत्र द्विजोत्तमाः
कस्यचित्त्वथ कालस्य बृहदश्वो महीपतिः
स दृष्ट्वा विपुलां भूमिं प्रासादैः परिवर्जिताम्
शिल्पिनश्च समाहूयानेकांस्तत्र सहस्रशः
भूमौ निखन्यमानायां ततो लिंगानि भूरिशः
ततः स पार्थिवस्तैश्च लिंगैर्दृष्ट्वा वृतां भुवम्
ततःप्रभृति नो तत्र कश्चिन्मर्त्यो महीतले
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये राक्षसलिंगच्छेदनंनाम पञ्चोत्तरशततमोऽध्यायः
यानि तीर्थानि लुप्तानि लिङ्गानि च वदस्व नः
लोपं गतानि वक्ष्यामि प्राधान्येन प्रबोधत
तत्र लोपं गतं तीर्थं चक्रतीर्थमिति स्मृतम्
मातृतीर्थं तथैवान्यत्सर्वकामप्रदं नृणाम्
मुचुकुन्दस्य राजर्षेस्तथान्यल्लिंग मुत्तमम्
इक्ष्वाकोर्वसुषेणस्य ककुत्स्थस्य महात्मनः
अग्निवेशस्य रैभ्यस्य च्यवनस्य भृगोस्तथा
हारीतस्य महर्षेश्च हर्यश्वस्य महात्मनः
तथैव ऋषिपत्नीनां तत्र लिंगानि भूरिशः
अन्यासां मुनिपत्नीनां यासां संख्या न विद्यते ६.१०६.
दृष्ट्वा पांसुमयीं वृष्टिं मुक्तां प्रेतैः समंततः
तेन पांसुकृता वृष्टिः समंतान्मथिता बहिः । तस्या भूमेः पतत्येव न किंचित्तत्र पूर्यते
ततस्ते व्यंतराः खिन्ना निराशास्तस्य पूरणे
अस्माभिर्विहिता तत्र पांसुवृष्टिर्महीपते
स त्वं तासां विघातार्थमुपायं भूप चिंतय
तेषां तद्वचनं श्रुत्वा ततः कुशमहीपतिः
ततस्तस्य गतस्तुष्टिं वर्षांते भगवान्हरः