अनुग्रहं करिष्यामि न दास्यामि च भोजनम्
निगृहीताः स युष्माकं प्रसादं प्रकरिष्यति
रक्षसा तेन यद्युक्तमखिलं तत्त्वमाचर भक्तिशक्तिसमोपेतो यथा ते स विभीषणः
अद्यप्रभृति नो भूमौ विचरिष्यंति राक्षसाः
लिंगानां च कृते राजन्विज्ञप्तं तेन रक्षसा रामदेवस्य वाक्येन जंबुद्वीपे न मे गतिः
अत्र स्थितस्य यत्कृत्यं दैवं वा मानुषं च वा । तवादेशं करिष्यामि यद्यपि स्यात्सुदुष्करम्
तस्मात्तेन महाराज रामेश्वरप्रपूजकः ६.१०४.
अथ तस्य समादेशाड्ढौकनीयैः पृथग्विधैः
धात्रीफलप्रमाणानां तेन प्रस्थास्त्रयोदश
वैडूर्याणां मरकतानां मणीनां च द्विजोत्तमाः
अग्निशौचानि वस्त्राणि तथा देवमयानि च
तत्सर्वं दर्शयित्वाथ कुशाय सुमहात्मने ॥ कृत्वा प्रदक्षिणं पश्चात्प्रणाममकरोद्द्विजाः
एष पार्थिवशार्दूल राक्षसेन्द्रो विभीषणः
प्रसादात्ते पितुः क्षेमं मम राज्ये मही पते
मम राजन्नविज्ञातैर्यदि तैः सुदुरात्मभिः
एते ये राक्षसाः शप्तास्तवार्थाय मया प्रभो
पूरयंतु प्रयत्नेन पांसुभिः सर्वतोदिशम् ॥ ६.१०४.
ततस्तु भोजनं तेषां यद्भविष्यति भूतले
तुलागते सदादित्ये तैरागत्य धरातले
तत्र यैर्न कृतं श्राद्धं प्रेतपक्षे नराधमैः
ज्वररूपैस्तदंगस्थैर्भक्ष्यमन्नं पृथग्विधम्
विधिहीनं च यैर्दत्तं भुक्तं च विधिवर्जितम्
एवं वाच्यास्त्वया सर्वे प्रेतास्ते मद्वचोऽखिलम्
तथा दूत त्वया वाच्यो मम वाक्याद्विभीषणः
जानाम्यहं महाभाग न तेऽस्ति विकृतिः क्वचित्
राक्षसेन्द्रे स्थिते भूमौ त्वयि जानाम्यहं सदा
एवमुक्त्वा ततो दूतं पूजया मास राघवः ६.१०४.
विभीषणकृते पश्चात्प्रेषयामास राघवः
एवं स सुखसंयुक्तान्कृत्वा सर्वान्द्विजोत्तमान् । एतत्सर्वं ददौ पश्चात्तेभ्यो मुक्तादिकं नृपः
ढौकनीयं तथाऽऽयातं तल्लंकायाः पृथग्विधम्