ततो गौरी ददौ भोज्यपात्रं मोदकपूरितम् 7.3.32.
तस्य भक्ष्यस्य गन्धेन निष्क्रान्तो मूषको बिलात्
तस्मिन्दृष्टे च यत्पुण्यं तत्त्वमेकमनाः शृणु
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि यत्
माघमासे सिते पक्षे चतुर्थ्यां समुपोषितः तस्याग्रे सुमहत्कुण्डं स्वच्छोदकपूरितम्
तत्र स्नात्वा नरो भक्त्या यः पश्यति विनायकम्
गणानां त्वेति मंत्रेण कृत्वा वै त्रिः प्रदक्षिणम्
तस्मात्सर्वप्रयत्नेन तं प्रपश्येद्विनायकम्
गृहस्थोऽपि च यो भक्त्या स्मरेत्कार्य उपस्थिते
प्रातरुत्थाय यो मर्त्यः स्मरेद्देवं विनायकम्
विवाहे कलहे युद्धे प्रस्थाने कृषिकर्मणि तस्य तद्वांछितं सर्वं प्रसादात्तस्य सिद्ध्यति ॥ 7.3.32.
महाविनायकीं शांतिं यः करोति समाहितः
के मंत्राः किं विधानं च परं कौतूहलं हि मे
श्रेष्ठचंद्रबले शांतिं गणेशस्य समाचरेत्
पूर्वोत्तरे समे देशे कृत्वा वेदिं च मंडपम्
इन्द्रादिलोकपालांश्च दिक्षु सर्वासु भूपते
गंधपुष्पोपहारैश्च यथोक्तैर्बलिविस्तरैः
तस्यैव पूर्वदिग्भागे सहिरण्यं फलान्वितम्
विनायकं समुद्दिश्य पुरः कुण्डे करात्मके
मधुदूर्वाक्षतैहोमैर्ग्रहहोमादनंतरम् 7.3.32.
कार्यो वै पार्थिवश्रेष्ठ कार्यश्चोदङ्मुखैर्द्विजैः
पीतांबरधरैश्चैव धृतहेमांगुलीयकैः
मृगचर्मोपरिस्थं च मंत्रैरेभिर्विधानतः
इमं मे गंगे यमुने पंचनद्यः सुपुष्करे
सम्यगुच्चार्य विघ्नानां ततो नाशं प्रपद्यते
आधयो व्याधयो रौद्रा दुष्टरोगा ज्वरादयः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि
यश्च कीर्त्तयते सम्यक्चतुर्थ्यां सुसमाहितः
यंयं काममभिध्यायन्यजेच्चेदं समाहितः
यं दृष्ट्वा मानवः सम्यङ्मुच्यते सर्वपातकैः