ततस्तत्रैव चानीय तस्य दूतस्य संनिधौ
यैः कृतो जनविध्वंसो राक्षसैः सुदुरात्मभिः
ते सर्वे व्यंतरा रौद्राः प्रभवंतु सुदुःखिताः
सर्वभोगपरित्यक्ताः शीतातपसहि ष्णवः
एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः
अद्यप्रभृति नो कश्चिद्राक्षसः संप्रयास्यति क्षम्यतामपराधो मे यदज्ञाना दयंकृतः
राक्षसैर्दुष्टजातीयैर्महामांसस्यलोलुपैः ६.१०४.
यदन्यदपि कृत्यं स्याद्दैवं वा मानुषं च वा
तानि गत्वा स्वयं शीघ्रं त्वमुत्पाटय राक्षस
एतदेव परं कृत्यं सर्वलोकसुखावहम्
संपूजितानि रक्षोभिश्चतुर्वक्त्राणि राक्षस
तत्क्षणान्नाशमायाति एतद्दृष्टं मया स्वयम् तैः स्थितैर्भूतले लिंगैः स्थिताः सर्वे निशाचराः
रामेश्वरमतिक्रम्य न गतव्यं धरातले
अन्यच्च कारणं दूत प्रोक्तमत्र मनीषिभिः
तत्कथं तत्र गत्वाऽथ लिंगभेदं करोम्यहम्
तस्मात्प्रसादनीयस्ते मद्वाक्यात्स नराधिपः
एवमुक्त्वाथ तं दूतं रत्नैः सागरसंभवैः ६.१०४.
अथ ते राक्षसास्तेन शप्ताः प्रोचुः सुदुःखिताः
नाहं करोमि भूयोऽपि युष्माकं राक्षसाधमाः
तस्मात्सोऽपि रघुश्रेष्ठः प्रसादं वः करिष्यति
एवमुक्त्वाऽथ रक्षेन्द्रः प्रेषयामास सत्वरम्
गत्वा ब्रूहि कुशं भूपं सत्वरं वचनान्मम अनुग्रहं कुरु विभो दीनानां भोजनाय वै
एवमुक्तस्ततस्तेन इतो दूतेन संयुतः
ततो गत्वा द्रुतं दूतः कुशं प्रोवाच सादरम्
विभीषणो मया दृष्टो देवे रामेश्वरे विभो
प्रोक्तो मया भवद्वाक्यमशेषं रघुनन्दन
अजानतः प्रभो तस्य राक्षसैः सुदुरात्मभिः ६.१०४.
तच्छ्रुत्वा मन्मुखात्तेन सर्वेषां निग्रहः कृतः कृतास्ते व्यन्तरा सर्वे पापाहारविहारिणः
भविष्यथ तथा यूयं क्षुत्पिपासानिपीडिताः
शप्ताः सर्वे वयं तावत्प्रसादं कुरु तद्विभो