नमस्ते देवदेवेश भक्तानामभयप्रद
त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः
यथा तिलगतं तैलं गूढं तिष्ठति सर्वदा
यथा काष्ठगतो वह्निः संस्थितोऽपि न लक्ष्यते
यथा दधिगतं सर्पिर्निगूढत्वेन संस्थितम्
यथा जलं धरापृष्ठात्खनन्नाप्नोति मानवः
तावच्च दुर्लभः स्वर्गस्तावच्छूराश्च शत्रवः ६.१०४.
तावल्लक्ष्मीश्चला नॄणां तावद्रोगाः पृथग्विधाः
तावत्पुत्रोद्भवं दुःखं तथा प्रियसमु द्भवम्॥ यावत्त्वं देव नायासि सन्तोषं देहिनामिह
एवं स्तुत्वा ततो लिंगं स्नापयित्वा यथाविधि
पारिजातकपुष्पैश्च तथा सन्तानसम्भवैः
पूजां चक्रे सुविस्तीर्णा श्रद्धया परया युतः
स च गीतं स्वयं चक्रे तालमादाय पाणिना
तानयुक्त्या समोपेतं ग्रामै रागैः स्वलंकृतम्
यावत्संप्रस्थितो भूयो लंकां प्रति विभीषणः
विशेषतस्तु तेनोक्तं यत्तस्य पुरतः पुरा
तच्छ्रुत्वाथ प्रणम्योच्चैर्दूतं प्राह विभीषणः ६.१०४.
यद्येवं विहितं राज्ये रामपुत्रस्य राक्षसैः
तस्मान्महाप्रसादो मे कृतस्तेन महात्मना
एवमुक्त्वा स तान्सर्वाञ्छोधयामास राक्षसान्
ततस्तत्रैव चानीय तस्य दूतस्य संनिधौ
यैः कृतो जनविध्वंसो राक्षसैः सुदुरात्मभिः
ते सर्वे व्यंतरा रौद्राः प्रभवंतु सुदुःखिताः
सर्वभोगपरित्यक्ताः शीतातपसहि ष्णवः
एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः
अद्यप्रभृति नो कश्चिद्राक्षसः संप्रयास्यति क्षम्यतामपराधो मे यदज्ञाना दयंकृतः
राक्षसैर्दुष्टजातीयैर्महामांसस्यलोलुपैः ६.१०४.
यदन्यदपि कृत्यं स्याद्दैवं वा मानुषं च वा
तानि गत्वा स्वयं शीघ्रं त्वमुत्पाटय राक्षस
एतदेव परं कृत्यं सर्वलोकसुखावहम्