सर्वदा राक्षसेन्द्रोऽसौ शुभं रामेश्वरत्रयम्
लंकाद्वारे स्थितो यो वै सेतुखण्डे महेश्वरः
जलमध्यगतं यच्च सेतुखंडं द्वितीयकम्
एनं देव निशीथे च सर्वदागत्य भक्तितः
तस्मात्तिष्ठ त्वमव्यग्रः स्थानेऽत्रैव समाहितः
तेनैव सहितः पश्चात्स्वेच्छया तस्य मन्दिरम्
अथ तेषां तदाकर्ण्य स दूतो हर्षसंयुतः ६.१०४.
अथ प्राप्ते निशार्धे स राक्षसैः परिवारितः
विमानवरमारूढः स्तूयमानः समन्ततः
उत्तीर्य च विमानाग्र्यात्कृत्वाऽथ त्रिः प्रदक्षिणाम्
नमस्ते देवदेवेश भक्तानामभयप्रद
त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः
यथा तिलगतं तैलं गूढं तिष्ठति सर्वदा
यथा काष्ठगतो वह्निः संस्थितोऽपि न लक्ष्यते
यथा दधिगतं सर्पिर्निगूढत्वेन संस्थितम्
यथा जलं धरापृष्ठात्खनन्नाप्नोति मानवः
तावच्च दुर्लभः स्वर्गस्तावच्छूराश्च शत्रवः ६.१०४.
तावल्लक्ष्मीश्चला नॄणां तावद्रोगाः पृथग्विधाः
तावत्पुत्रोद्भवं दुःखं तथा प्रियसमु द्भवम्॥ यावत्त्वं देव नायासि सन्तोषं देहिनामिह
एवं स्तुत्वा ततो लिंगं स्नापयित्वा यथाविधि
पारिजातकपुष्पैश्च तथा सन्तानसम्भवैः
पूजां चक्रे सुविस्तीर्णा श्रद्धया परया युतः
स च गीतं स्वयं चक्रे तालमादाय पाणिना
तानयुक्त्या समोपेतं ग्रामै रागैः स्वलंकृतम्
यावत्संप्रस्थितो भूयो लंकां प्रति विभीषणः
विशेषतस्तु तेनोक्तं यत्तस्य पुरतः पुरा
तच्छ्रुत्वाथ प्रणम्योच्चैर्दूतं प्राह विभीषणः ६.१०४.
यद्येवं विहितं राज्ये रामपुत्रस्य राक्षसैः
तस्मान्महाप्रसादो मे कृतस्तेन महात्मना
एवमुक्त्वा स तान्सर्वाञ्छोधयामास राक्षसान्