ततस्ते मानवाः सर्वे प्रद्रवंतः समंततः
तथान्ये बहवो गत्वा ह्ययोध्याख्यां महापुरीम्
तव पित्रा समं प्राप्ताः पूर्वं ये राक्षसा नृप
संस्थापितानि लिंगानि चतुर्वक्त्राणि तत्र वै
तेनैव चानुषंगेण समागच्छंति नित्यशः
यदि वा तानि लिंगानि कश्चित्संपूजयेन्नरः
तस्माद्यदि न रक्षा नः करिष्यसि महीपते ६.१०४.
तच्च क्षेत्रं विशेषेण यत्रागच्छंति ते सदा
तच्छ्रुत्वा स नृपस्तूर्णं स्वामात्यानां न्यवेदयत्
अथ प्राप्तं कुशं दृष्ट्वा हतशेषा द्विजोत्तमाः
किमेवं क्रियते राज्यं यथा त्वं क्षत्रियाधमः ॥ करोषि यत्र विध्वंसं राक्षसै र्नीयते जनः
नूनं जातो न रामेण भवान्रावणसंभवः
सत्यमेतत्पुरा प्रोक्तं नीतिशास्त्रविचक्षणैः
तस्मात्त्वं राक्षसोद्भूतो राक्षसैर्द्विजसत्तमान्
आर्तानां यत्र लोकानां दोषैः पार्थिवसंभवैः
राक्षसेभ्यः समुत्पन्नो ब्राह्मणानां पराभवः
अद्यप्रभृति यः कश्चिद्विनाशं नीयते क्वचित् ६.१०४.
एवमुक्त्वा ततस्तूर्णं प्रेषयामास राघवः
गच्छ दूत द्रुतं गत्वा त्वया वाच्यो विभीषणः
यद्राक्षसगणैः सार्धं मम भूमिं समंततः
मम पित्रा कृतेयं ते प्रतिष्ठा राक्षसाधम
विषवृक्षोऽपि यो वृद्धिं स्वयमेव प्रणीयते
तस्मादद्य दिनादूर्ध्वं यदि कश्चिन्निशाचरः
तदहं सत्वरं प्राप्य लंकां तव पुरीमिमाम्
त्वां च बद्ध्वा दृढैः पाशैर्निगडैश्च सुसंयतम्
एवमुक्तस्ततो दूतो गत्वा सेतुं द्रुतं ततः
तावत्पृष्टो जनैः कैश्चित्कस्त्वं वत्स इहागतः ६.१०४.
प्रेषितः कार्यमुद्दिश्य तत्र यास्याम्यहं कथम्
भग्नः सेतुर्यतो मध्ये रामेणाक्लिष्टकर्मणा
तस्मादत्रैव ते कार्यं सिद्धिं दूत प्रयास्यति