ततस्तृप्तिं प्रगच्छामि यावद्दैवं दिनं स्थितम्
नास्त्यसाध्यं मुनिश्रेष्ठ तव किंचिज्जगत्त्रये 6.103.
तस्मान्मुने दयां कृत्वा ममोपरि महत्तराम्
तथा दृष्टिप्रदानं मे कुरुष्व मुनिसत्तम
तस्य तद्वचनं श्रुत्वा कृपया मम मानसम्
त्वमन्ननिष्क्रयं देहि कण्ठस्थमिह भूषणम्
तथाऽद्यप्रभृति प्राज्ञ रत्नदीपान्सुनिर्मलान्
द्ध?स येन संजायते दृष्टिः शाश्वती तव निर्मला
गृहाण रत्नसंभूतं कण्ठाभरणमुत्तमम्
ततो दयाभिभूतेन मया तस्य प्रतिग्रहः ॥ निःस्पृहेणापि संचीर्णो मुनिना रण्यवासिना। ततः प्रक्षाल्य मे पादौ यावत्तेनान्ननिष्क्रये। विभूषणमिदं दत्तं सद्भक्त्या भावितात्मने संजाता परमा तृप्तिर्देवपीयूषसंभवा ॥ 6.103.
तस्य नष्टं मृतं कायं तच्च जीर्णं पुरोद्भवम्
ततः संस्थापितस्तेन तस्मिन्स्थाने सुभक्तितः ॥ दामोदरो रघुश्रेष्ठ कृत्वा प्रासादमुत्तमम्
तस्याग्रे श्रद्धया युक्तो दीपं दयाद्यथायथा
ततो मासात्समासाद्य दिव्यचक्षुर्महीपतिः
ततः प्रोवाच मां हृष्टः प्रणिपत्य कृतांजलिः
त्वत्प्रसादात्प्रणष्टा मे बुभुक्षाऽतिसुदारुणा
अनुज्ञां देहि मे तस्माद्येन गच्छामि सांप्रतम्
ततो मया विनिर्मुक्तः प्रणिपत्य मुहुर्मुहुः
एवं मे भूषणमिदं जातं हस्तगतं पुरा
ततः प्रभृति राजेंद्र समागत्यात्र मानवाः कार्तिके मासि निर्यांति देहांते त्रिदिवालयम् ॥ 6.103.
ये पुनः प्राणसंत्यागं प्रकुर्वंति समाहिताः
ततो दृष्ट्वा सहस्राक्षः प्रभावं तज्जलोद्भवम्
तदद्य दिवसः प्राप्तो दीपोत्सवसमुद्भवः
तत्र स्नात्वा पितॄंस्तर्प्य रत्नदीपं प्रदाय च ॥ समस्तं कार्तिकं यावदयोध्यां प्रस्थितास्ततः
ततो विभीषणं मुक्त्वा हनूमंतं च वानरम्
संप्राप्ते कार्तिके मासि स्नात्वा तत्र जले शुभे
एवं तत्र समुत्पन्नं तत्तडागं शुभावहम् 6.103.
स्थापितानि च माहात्म्यं तेषां सूत प्रकीर्तय
लंकापुर्याः समायांति सदैव शतशः पुरा
आगच्छन्तो व्रजन्तस्ते मार्गे क्षेत्रे च तत्र च