सर्वैः सभागतैर्दृष्टा विस्मितास्यैः परस्परम्
सर्वैर्देवगणैर्जुष्टा प्रणामः क्रियतामिति ॥ 6.103.
ततोऽहं प्रणिपत्योच्चैस्तं देवं देवसंयुतम्
यथायथा कथास्तत्र प्रजायन्ते सभातले
तथातथा ममातीव क्षुद्वृद्धिं संप्रगच्छति
ततो मया प्रणम्योच्चैर्विज्ञप्तः प्रपितामहः
क्षुधा मां बाधते अतीव सांप्रतं प्रपितामह
क्षुत्पिपासादयो दोषा न विद्यंतेऽत्र ते किल
त्वया नान्नं क्वचिद्दत्तं कस्यचित्पृथिवीतले । तेनात्रापि बुभुक्षा ते वृद्धिं गच्छति दुर्मते
तथा हृतानि रत्नानि यानि दृष्टिगतानि ते
यस्त्वं पातकयुक्तोऽपि संप्राप्तो मम मंदिरम्
यस्मिञ्जले त्वया मुक्ताः प्राणाः पापा त्मनापिच 6.103.
ततोऽस्य स्पर्शनात्सद्यो विमुक्तः सर्वपातकैः
तथा रत्नापहारेण सञ्जाता चांधता तव
ततो मया विधिः प्रोक्तः पुनरेव द्विजोत्तम तस्मात्तत्रैव मां देव प्रेषयस्व किमत्र वै
नरके तव वासो न श्वेतद्वीपसमुद्भवम्
माहात्म्यं नाशमायाति शास्त्रं स्यात्सत्यवर्जितम्
गत्वा जलाशये तस्मिन्यत्र प्राणाः समुज्झिताः
तद्भविष्यति मद्वाक्या दक्षयं जलमध्यगम्
ततोऽहं तस्य वाक्येन दीपोत्सवदिने सदा
ततस्तृप्तिं प्रगच्छामि यावद्दैवं दिनं स्थितम्
नास्त्यसाध्यं मुनिश्रेष्ठ तव किंचिज्जगत्त्रये 6.103.
तस्मान्मुने दयां कृत्वा ममोपरि महत्तराम्
तथा दृष्टिप्रदानं मे कुरुष्व मुनिसत्तम
तस्य तद्वचनं श्रुत्वा कृपया मम मानसम्
त्वमन्ननिष्क्रयं देहि कण्ठस्थमिह भूषणम्
तथाऽद्यप्रभृति प्राज्ञ रत्नदीपान्सुनिर्मलान्
द्ध?स येन संजायते दृष्टिः शाश्वती तव निर्मला
गृहाण रत्नसंभूतं कण्ठाभरणमुत्तमम्
ततो दयाभिभूतेन मया तस्य प्रतिग्रहः ॥ निःस्पृहेणापि संचीर्णो मुनिना रण्यवासिना। ततः प्रक्षाल्य मे पादौ यावत्तेनान्ननिष्क्रये। विभूषणमिदं दत्तं सद्भक्त्या भावितात्मने संजाता परमा तृप्तिर्देवपीयूषसंभवा ॥ 6.103.