यथायथा महामांसं स भक्षयति राघव
ततस्तृप्तिं चिरात्प्राप्य शुचिर्भूत्वा प्रहर्षितः 6.103.
तावन्मया द्रुतं गत्वा स पृष्टः कौतुकान्नृपः
भोभो वैमानिकश्रेष्ठ मुहूर्तं प्रतिपालय
तच्छ्रुत्वा सम्मुखो भूत्वा प्रणाममकरोत्ततः
सोऽयं राजा मया पृष्टः कृतानतिः पुरः स्थितः सेव्यमानोऽप्सरोभिश्च गन्धर्वैः किन्नरैस्तथा
अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम्
अवश्यं सानुकूलो मे विधिर्यत्त्वं समागतः
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः
तस्मात्सर्वं तवाख्यानं कथयामि महामुने । येन मे गर्हितं भोज्यं विभवश्च तथेदृशः
अहमासं पुरा राजा श्वेतोनाम महामुने
न किंचित्प्राङ्मया दत्तं न हुतं जातवेदसि 6.103.
दृष्ट्वादृष्ट्वा मया रत्नं यत्किंचिद्धरणीतले ॥ । तद्वै बलाद्धृतं सर्वं सर्वेषामिह देहिनाम्
ततः कालेन दीर्घेण जराग्रस्तस्य मे बलात्
ततोऽहं जरया ग्रस्तो वैराग्यं परमं गतः
ततः क्षुत्क्षामकण्ठोऽहं स्नात्वाऽत्र सलिले शुभे
प्राविश्याऽत्र जले पुण्ये पंचत्वं समुपागतः
मामन्येन शरीरेण समादाय च किंकराः
दिव्यमाल्यावरधरंदिव्यगन्धानुलेपनम्
ततो ब्रह्मसभामध्ये ह्यहं तैर्देवकिंकरैः
सर्वैः सभागतैर्दृष्टा विस्मितास्यैः परस्परम्
सर्वैर्देवगणैर्जुष्टा प्रणामः क्रियतामिति ॥ 6.103.
ततोऽहं प्रणिपत्योच्चैस्तं देवं देवसंयुतम्
यथायथा कथास्तत्र प्रजायन्ते सभातले
तथातथा ममातीव क्षुद्वृद्धिं संप्रगच्छति
ततो मया प्रणम्योच्चैर्विज्ञप्तः प्रपितामहः
क्षुधा मां बाधते अतीव सांप्रतं प्रपितामह
क्षुत्पिपासादयो दोषा न विद्यंतेऽत्र ते किल
त्वया नान्नं क्वचिद्दत्तं कस्यचित्पृथिवीतले । तेनात्रापि बुभुक्षा ते वृद्धिं गच्छति दुर्मते
तथा हृतानि रत्नानि यानि दृष्टिगतानि ते