यस्मिन्दिने समायातो रामस्तत्र प्रहर्षितः
अत्रागस्त्यो मुनिश्रेष्ठस्तिष्ठते रघुनंदन
अथ तेषां वचः श्रुत्वा रामो राजीवलोचनः 6.103.२० अष्टांगप्रणिपातेन तं प्रणम्य रघूत्तमः
नातिदूरे ततस्तस्य विनयेन समन्वितः
ततः पृष्टस्तु मुनिना कथयामास विस्तरात्
यथा सीता परित्यक्ता यथा सौमित्रिणा कृतः
तथा सुग्रीवमासाद्य तथैव च विभीषणम्
ततोऽगस्त्यः कथाश्चित्राश्चक्रे तस्य पुरस्तदा
ततः कथावसाने च चलचित्तं रघूत्तमम्
यन्न देवेषु यक्षेषु सिद्धविद्याधरेषु च
यस्येन्द्रायुधसंघाश्च निष्क्रामंति सहस्रशः
तद्रामस्तु गृहीत्वाऽथ विस्मयोत्फुल्ललोचनः ॥ 6.103.
अत्यद्भुतकरं रत्नैर्निर्मितं तिमिरापहम्
ममाश्रमसमीपस्थं तद्देवदेवनिर्मितम्
तस्य तीरे मया दृष्टं यदाश्चर्यमनुत्तमम्
कदाचिद्राघवश्रेष्ठ निशीथेऽहं समुत्थितः
यावत्तावद्विमानं तदप्सरोगणराजितम् अन्धस्तत्र समारूढः स्तूयते किन्नरैर्नृपः
रत्नाभरणमेतच्च बिभ्रत्कण्ठे सुनिर्मलम्
अथोत्तीर्य विमानाग्र्यात्स्कंधलग्नो रघूद्वह
ततश्च सलिलात्तस्मादाकृष्य च कलेवरम्
यथायथा महामांसं स भक्षयति राघव
ततस्तृप्तिं चिरात्प्राप्य शुचिर्भूत्वा प्रहर्षितः 6.103.
तावन्मया द्रुतं गत्वा स पृष्टः कौतुकान्नृपः
भोभो वैमानिकश्रेष्ठ मुहूर्तं प्रतिपालय
तच्छ्रुत्वा सम्मुखो भूत्वा प्रणाममकरोत्ततः
सोऽयं राजा मया पृष्टः कृतानतिः पुरः स्थितः सेव्यमानोऽप्सरोभिश्च गन्धर्वैः किन्नरैस्तथा
अत्राऽऽगत्य तडागांते महामांसप्रभक्षणम्
अवश्यं सानुकूलो मे विधिर्यत्त्वं समागतः
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः
तस्मात्सर्वं तवाख्यानं कथयामि महामुने । येन मे गर्हितं भोज्यं विभवश्च तथेदृशः