पुष्पकं प्रेरयामास तत्क्षेत्रं प्रति राघवः ॥६.१०२. सर्वैस्तैर्वानरैः सार्धं राक्षसैश्च पृथग्विधैः
तीर्थमालोकयामास पुण्यान्यायतनानि च चामुण्डां तत्र च स्नात्वा कुण्डे कामप्रदायिनि
ततो विलोकयामास पित्रा तस्य विनिर्मितम्
राजवाप्यां शुचिर्भूत्वा स्नात्वा तर्प्य निजान्पितॄन्
लिंगं संस्थापयाम्येव यद्वत्तातेन केशवः
यस्तस्य नामनिर्दिष्टं लिंगं संस्थापयाम्यहम् क्षेत्रे मेध्यतमे चात्र तथात्मानं दृषन्मयम्
एवं स निश्चयं कृत्वा प्रासादानां च पंचकम्
ततस्ते वानराः सर्वे राक्षसाश्च विशेषतः
तत्रैव सुचिरं कालं स्थितास्ते श्रद्धयाऽन्विताः
एतद्वः सर्वमाख्यातं यथा रामेश्वरो महान् ६.१०२.
यस्तौ प्रातः समुत्थाय सदा पश्यति मानवः
अथाष्टम्यां चतुर्दश्यां यो रामचरितं पठेत्
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामचन्द्रेण हाटकेश्वरक्षेत्रे लक्ष्मणादिप्रासादपञ्चकनिर्माणप्रतिष्ठापनवर्णनंनाम द्व्युत्तरशततमोऽध्यायः
ऋषय ऊचुः यत्स्थापितानि लिंगानि राक्षसैरपि वानरैः
तस्माद्विस्तरतो ब्रूहि यत्रयत्र यथायथा
बालमंडनकं प्राप्य तत्र स्नात्वा समाहितः
मुखलिंगं ततस्तत्र स्थापयामास शूलिनः ॥। तथान्यैर्वानरैः सर्वैमुखलिंगानि शूलिनः
यस्तेषां मुखलिंगानां करोति घृतकंबलम्॥। मकरस्थेन सूर्येण शिवलोकं स गच्छति
ततः पश्चिमदिग्भागे तस्य क्षेत्रस्य राक्षसैः _
रामेण पूर्वदिग्भागे प्रासादानां च पंचकम्
तथादक्षिणदिग्भागे कूपिका तेन निर्मिता॥। आनर्त्तीयतडागस्य समीपे पापनाशनी
यस्तस्यां कुरुते श्राद्धं संप्राप्ते दक्षिणायने
यस्तत्र दीपकं दद्यात्कार्तिके मासि च द्विजाः न चांधो जायते क्वापि यत्रयत्र प्रजायते ॥ 6.103.
किंप्रभावं च कार्त्स्न्येन सूतपुत्र प्रकीर्तय
आनर्त्तीयतडागस्य महिमा द्विजसत्तमाः
आश्विनस्य सिते पक्षे चतुर्दश्यां समाहितः
ततो दीपोत्सवदिने श्राद्धं कृत्वा समाहितः
संपूज्यो धर्मराजस्तु गन्धपुष्पानुलेपनैः
तिलमाषप्रदानेन द्विजानां तर्पणेन च
य एवं कुरुते विप्रास्तीर्थ आनर्त संज्ञिते