सेतुबंधं तथासाद्य प्रस्थितः स्वगृहं प्रति
मानवा आगमिष्यंति कौतुकाच्छ्रद्धयाविताः
राक्षसानां महाराज जातिः क्रूरतमा मता
यदा कश्चिज्जनं कश्चिद्राक्षसो भक्षयिष्यति । आज्ञाभंगो ध्रुवं भावी मम भक्तिरतस्य च
भविष्यंति कलौ काले दरिद्रा नृपमानवाः
नित्यं चैवागमिष्यन्ति त्यक्त्वा रक्षःकृतं भयम् । तेषां यदि वधं कश्चिद्राक्षसात्प्रापयिष्यति
भविष्यति च मे दोषः प्रभुद्रोहोद्भवः प्रभो ॥ तस्मात्कंचिदुपायं त्वं चिन्तयस्व यथा मम । आज्ञाभंगकृतं पापं जायते न गुरो क्वचित् ॥ ६.१०१.
तस्य तद्वचनं श्रुत्वा ततः स रघुसत्तमः
ततस्तं कीर्तिरूपं च मध्यदेशे रघूत्तमः
तेन संस्थापितो यत्र शिखरे शंकरः स्वयम्॥। शिखरं तत्सलिंगं च पतितं वारिधेर्जले
एवं मार्गमगम्यं तं कृत्वा सेतुसमुद्भवम्
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सेतुमध्ये श्रीरामकृतरामेश्वरप्रतिष्ठावर्णनंनामैको त्तरशततमोऽध्यायः
यदाश्चर्यमभून्मार्गे श्रूयतां द्विजसत्तमाः
नभोमार्गेण गच्छत्तद्विमानं पुष्पकं द्विजाः
अथ तन्निश्चलं दृष्ट्वा पुष्पकं गगनांगणे ३ त्वं गत्वा मारुते शीघ्रं भूमिं जानीहि कारणम्
कदाचिद्धार्यते नास्य गतिः कुत्रापि केनचित्
बाढमित्येव स प्रोच्य हनूमान्धरणीतलम्
अत्रास्याधः शुभं क्षेत्रं हाटकेश्वर संज्ञितम्
आदित्या वसवो रुद्रा देववैद्यौ तथाश्विनौ
एतस्मात्कारणान्नैतदतिक्रामति पुष्पकम्
पुष्पकं प्रेरयामास तत्क्षेत्रं प्रति राघवः ॥६.१०२. सर्वैस्तैर्वानरैः सार्धं राक्षसैश्च पृथग्विधैः
तीर्थमालोकयामास पुण्यान्यायतनानि च चामुण्डां तत्र च स्नात्वा कुण्डे कामप्रदायिनि
ततो विलोकयामास पित्रा तस्य विनिर्मितम्
राजवाप्यां शुचिर्भूत्वा स्नात्वा तर्प्य निजान्पितॄन्
लिंगं संस्थापयाम्येव यद्वत्तातेन केशवः
यस्तस्य नामनिर्दिष्टं लिंगं संस्थापयाम्यहम् क्षेत्रे मेध्यतमे चात्र तथात्मानं दृषन्मयम्
एवं स निश्चयं कृत्वा प्रासादानां च पंचकम्
ततस्ते वानराः सर्वे राक्षसाश्च विशेषतः
तत्रैव सुचिरं कालं स्थितास्ते श्रद्धयाऽन्विताः
एतद्वः सर्वमाख्यातं यथा रामेश्वरो महान् ६.१०२.