ततः प्रोवाच विनयात्कृतांजलिपुटः स्थितः
वाष्पपूरप्रतिच्छन्नवक्त्रो भूयो विनिःश्वसन्
ततः प्रोवाच सत्यार्थं विभीषणकृते हितम्
अहं राज्यं परित्यज्य सांप्रतं राक्षसोत्तम
न तेन रहितो मर्त्ये मुहूर्तमपि चोत्सहे
अहं शिक्षापणार्थाय तव प्राप्तो विभीषण
एषा राज्योद्भवा लक्ष्मीर्मदं संजनयेन्नृणाम्
शक्राद्या अमराः सर्वे त्वया पूज्याः सदैव हि ॥ मान्याश्च येन ते राज्यं जायते शाश्वतं सदा । ६.१०१.
मम सत्यं भवेद्वाक्य मेतस्मादहमागतः
विनाशं सहसा प्राप्तस्तस्मान्मान्याः सुराः सदा मत्काय एव द्रष्टव्यः सर्वैरेव निशाचरैः
तथा निशाचराः सर्वे त्वया वार्या विभीषण
परं त्वया परित्यक्ते मर्त्ये मे जीवितं व्रजेत्
तस्मान्मामपि तत्रैव त्वं विभो नेतुमर्हसि
तस्मान्नार्हसि मां कर्तुं मिथ्याचारं कथंचन
अहमस्मिन्स्वके सेतौ शंकरत्रितयं शुभम् भक्तिमान्प्रतिसंधाय यावच्चंद्रार्कतारकम्
एवमुक्त्वा रघुश्रेष्ठो राक्षसेन्द्रं विभीषणम्
कुर्वन्युद्धकथाश्चित्रा याः कृताः पूर्वमेव हि
शंसमानः प्रवीरांस्तान्राक्षसान्बलवत्तरान् ६.१०१.
ततश्चैकादशे प्राप्ते दिवसे रघुनंदनः
वानरैस्तैः समोपेतो विभीषणपुरःसरः ३२ मध्ये चैव तथादौ च श्रद्धापूतेन चेतसा
सेतुबंधं तथासाद्य प्रस्थितः स्वगृहं प्रति
मानवा आगमिष्यंति कौतुकाच्छ्रद्धयाविताः
राक्षसानां महाराज जातिः क्रूरतमा मता
यदा कश्चिज्जनं कश्चिद्राक्षसो भक्षयिष्यति । आज्ञाभंगो ध्रुवं भावी मम भक्तिरतस्य च
भविष्यंति कलौ काले दरिद्रा नृपमानवाः
नित्यं चैवागमिष्यन्ति त्यक्त्वा रक्षःकृतं भयम् । तेषां यदि वधं कश्चिद्राक्षसात्प्रापयिष्यति
भविष्यति च मे दोषः प्रभुद्रोहोद्भवः प्रभो ॥ तस्मात्कंचिदुपायं त्वं चिन्तयस्व यथा मम । आज्ञाभंगकृतं पापं जायते न गुरो क्वचित् ॥ ६.१०१.
तस्य तद्वचनं श्रुत्वा ततः स रघुसत्तमः
ततस्तं कीर्तिरूपं च मध्यदेशे रघूत्तमः
तेन संस्थापितो यत्र शिखरे शंकरः स्वयम्॥। शिखरं तत्सलिंगं च पतितं वारिधेर्जले