ततो मे स्यान्मृषा वाणी तस्माद्गत्वा तदंतिकम्
तथा मे परमं मित्रं द्वितीयं वानरः स्थितः
सभृत्यो वायुपुत्रश्च वालिपुत्रसमन्वितः
तस्मात्तानपि संभाष्य सर्वान्संमंत्र्य सादरम्
एवं संचिन्त्य सुचिरं समाहूय च पुष्पकम्
अथ ते वानरा दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम्
ततः प्रणम्य ते दूराज्जानुभ्यामवनिं गताः
ततस्तेनैव संयुक्ताः किष्किन्धां तां महापुरीम् ६.१००.६० अथोत्तीर्य विमानाग्र्यात्सुग्रीवभवने शुभे
तत्र रामं निविष्टं ते विश्रांतं वीक्ष्य वानराः
कृशोऽस्यतीव चोद्विग्नः कच्चित्क्षेमं गृहे तव
काये वाऽनुगतो नित्यं तथा ते लक्ष्मणोऽनुजः
तथा प्राणसमाऽभीष्टा सीता तव प्रभो
वाष्पपूर्णेक्षणो भूत्वा सर्वं तेषां न्यवेदयत्
अथ सीता परित्यक्ता तथा भ्राता स लक्ष्मणः
तच्छ्रुत्वा वानराः सर्वे सुग्रीवप्रमुखास्ततः
एवं चिरं प्रलप्योच्चैस्ततः प्रोचू रघूत्तमम्
धन्या वयं धरापृष्ठे येषां त्वं रघुसत्तम ६.१००.
प्रातर्लंकां गमिष्यामि यत्रास्ते स विभीषणः
प्रधानामात्ययुक्तेन त्वयापि कपिसत्तम
उपास्यमानः सर्वैस्तैः सद्भक्त्या वानरोत्तमैः
ततः प्रभाते विमले प्रोद्गते रविमण्डले
सुग्रीवेण सुषेणेन तारेण कुमुदेन च
गवाक्षेण नलेनेव तथा जांबवतापि च
ततः संप्रस्थितः काले लंकामुद्दिश्य राघवः
संप्राप्तस्तत्क्षणादेव लंकाख्यां च महापुरीम्
ततो विभीषणो दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम् मंत्रिभिः सकलैः सार्धं तथा भृत्यैः सुतैरपि
अथ दृष्ट्वा सुदूरात्तं रामदेवं विभीषणः
तथागतं परिष्वज्य सादरं स विभीषणम्
विभीषणगृहं प्राप्य तत्र सिंहासने शुभे ६.१०१.
ततो निवेदयामास तस्मै सर्वं विभीषणः