कुरुष्व च यथेदं स्यात्सांप्रतं चौर्ध्वदैहिकम्
नष्टं मृतमतीतं च ये शोचन्ति कुबुद्धयः
एवं ते मन्त्रिणः प्रोच्य ततस्तस्य कलेवरम्
कर्पूरागुरुमिश्रैश्च तथान्यैः सुसुगन्धिभिः
चन्दनागुरुकाष्ठैश्च चितिं कृत्वा सुविस्तराम्
एतस्मिन्नंतरे जातं तत्राश्चर्यं द्विजोत्तमाः
यावत्तेंऽतः समारोप्य चितां तस्य कलेवरम्
एतस्मिन्नंतरे वाणी निर्गता गगनांगणात् ६.१००.
रामराम महाबाहो मा त्वं शोकपरो भव
ब्रह्मज्ञानप्रयुक्तस्य संन्यस्तस्य विशेषतः
तवायं बांधवो राम ब्रह्मणः सदनं गतः। ब्रह्मद्वारेण चात्मानं निष्क्रम्य सुमहायशाः
अथ ते मंत्रिणः प्रोचुस्तच्छ्रुत्वाऽऽकाशगं वचः लक्ष्मणो गम्यतां शीघ्रं तस्मात्स्वभवने विभो
चिन्त्यन्तां राजकार्याणि तथा यच्चौर्ध्वदैहिकम्
नाहं गृहं गमिष्यामि लक्ष्मणेन विनाऽधुना
एष पुत्रो मया दत्तः कुशाख्यो मम संमतः
एवमुक्त्वा ततो रामो गन्तुकामो दिवालयम्
मया तस्य तदा दत्तं लंकायां राज्यमक्षयम्
अतिक्रूरतरा जाती राक्षसानां यतः स्मृता ६.१००.
तच्चेद्राक्षसभावेन स महात्मा विभीषणः
तं देवाः सूदयिष्यंति उपायैः सामपूर्वकैः
ततो मे स्यान्मृषा वाणी तस्माद्गत्वा तदंतिकम्
तथा मे परमं मित्रं द्वितीयं वानरः स्थितः
सभृत्यो वायुपुत्रश्च वालिपुत्रसमन्वितः
तस्मात्तानपि संभाष्य सर्वान्संमंत्र्य सादरम्
एवं संचिन्त्य सुचिरं समाहूय च पुष्पकम्
अथ ते वानरा दृष्ट्वा प्रोद्द्योतं पुष्पकोद्भवम्
ततः प्रणम्य ते दूराज्जानुभ्यामवनिं गताः
ततस्तेनैव संयुक्ताः किष्किन्धां तां महापुरीम् ६.१००.६० अथोत्तीर्य विमानाग्र्यात्सुग्रीवभवने शुभे
तत्र रामं निविष्टं ते विश्रांतं वीक्ष्य वानराः
कृशोऽस्यतीव चोद्विग्नः कच्चित्क्षेमं गृहे तव