सा च्छाया दृश्यते देहे द्वितीया नृपसत्तम
ततो दुःखाभिसंतप्तो गतस्तत्रैव तत्क्षणात्
स ज्ञात्वा तीर्थमाहात्म्यं परं पार्थिवसत्तमः दानं दत्त्वा द्विजाग्रेभ्यः प्रविष्टो हव्यवाहनम्
ततो विमानमारुह्य परित्यज्य कलेवरम्
शिवलोकमनुप्राप्ते तस्मिन्पार्थिवसत्तमे
तीर्थेभ्यस्तु परं तीर्थमिदं वै पावनं परम् 7.3.31.
ततः प्रभृति तत्तीर्थं ख्यातं च धरणीतले
रक्तानुबन्धमित्येव तस्मात्तत्कीर्त्त्यते क्षितौ
तत्र संक्रमणे भानोर्यः स्नानं कुरुते नरः
पितृक्षेत्रे गयायां च श्राद्धं यः कुरुते नरः
चन्द्रसूर्योपरागे वा गोदानं नृपसत्तम
पुलस्त्य उवाच महाविनायकं गच्छेत्ततः पार्थिवसत्तम
ययातिरुवाच कथं महत्त्वमगमत्पूर्वं तत्र विनायकः
विनोदार्थं चकाराथ बालकं सुकुमारकम्
लेपाभावाच्छिरोहीनं शेषांगावयवं नृप
लेपमानय भद्रं ते शिरोऽर्थं स्कन्द सत्वरम्
ततो गौरीसमादेशाल्लेपालब्धौ नृपोत्तम
तस्मिन्नियोजयामास गात्रे लेपसमुद्भवे
ब्रुवंत्याश्चापि पार्वत्या मा मेति च मुहुर्मुहुः
विशेषान्नायकत्वं च गात्रेभ्यः समजायत
त्रिगंभीरं चतुर्हस्तं सप्तरक्तं महीपते 7.3.32.
त्रिविस्तीर्णं महाराज दृष्ट्वा गौरी सुविस्मिता
स सजीवः कृतो देव्या समुत्तस्थौ च तत्क्षणात्
तं दृष्ट्वा चाद्भुताकारं प्रोक्त्वा पुत्रं मुहुर्मुहुः
ततोऽब्रवीत्सुतं देव ममैव गात्रलेपजम्
महत्त्विदं शिरः प्रोक्तं त्वया स्कन्देन योजितम्
विशेषान्नायकत्वं च गात्रे चास्य यतः स्थितम्
गणानां चैव सर्वेषामाधिपत्यं नगात्मजे
सर्वकार्येषु ये मर्त्याः पूर्वमेनं गणाधिपम्
ततोऽस्य प्रददौ स्कन्दः प्रक्रीडार्थं कुठारकम्