व्रज लक्ष्मण मुक्तस्त्वं मया देशातरं द्रुतम्
न मया दर्शनं भूयस्तव कार्यं कथंचन
तस्य तद्वचनं श्रुत्वा प्रणिपत्य ततः परम्
अकृत्वापि समालापं केनचिन्निजमंदिरे
ततोऽसौ सरयूं गत्वाऽवगाह्याथ च तज्जलम्
पद्मासनं विधायाथ न्यस्यात्मानं तथात्मनि
अथ तद्राघवो दृष्ट्वा महत्तेजो वियद्गतम्
अथ मर्त्ये परित्यक्ते तेजसा तेन तत्क्षणात् ६.१००.
पपात भूतले कायं काष्ठलोष्टोपमं द्रुतम्
ततस्तु राघवः श्रुत्वा लक्ष्मणं गतजीवितम्
स्वयं गत्वा तमुद्देशं सामात्यः ससुहृज्जनः
हा वत्स मां परित्यज्य किं त्वं संप्रस्थितो दिवम्
तस्मिन्नपि महारण्ये गच्छमानः पुरादहम् ॥।? अपि संधार्यमाणेन अनुयातस्त्वया तदा
संप्राप्तेऽपि कबंधाख्ये राक्षसे बलवत्तरे
येनेन्द्रजिद्धतो युद्धे तादृग्रूपो निशाचरः
येन शूर्पणखा ध्वस्ता राक्षसी सा च दारुणा
यद्बाहुबलमाश्रित्य मया ध्वस्ता निशाचराः ।?
हा वत्स क्व गतो मां त्वं विमुच्य भ्रातरं निजम् ६.१००.
मातृभिः सहितो दीनः शोकेन महतान्वितः
ततस्ते मंत्रिणस्तस्य प्रोचुस्तं वीक्ष्य दुःखितम् ॥। विलपंतं रघुश्रेष्ठं स्त्रीजनेन समन्वितम्
कुरुष्व च यथेदं स्यात्सांप्रतं चौर्ध्वदैहिकम्
नष्टं मृतमतीतं च ये शोचन्ति कुबुद्धयः
एवं ते मन्त्रिणः प्रोच्य ततस्तस्य कलेवरम्
कर्पूरागुरुमिश्रैश्च तथान्यैः सुसुगन्धिभिः
चन्दनागुरुकाष्ठैश्च चितिं कृत्वा सुविस्तराम्
एतस्मिन्नंतरे जातं तत्राश्चर्यं द्विजोत्तमाः
यावत्तेंऽतः समारोप्य चितां तस्य कलेवरम्
एतस्मिन्नंतरे वाणी निर्गता गगनांगणात् ६.१००.
रामराम महाबाहो मा त्वं शोकपरो भव
ब्रह्मज्ञानप्रयुक्तस्य संन्यस्तस्य विशेषतः