ततश्चार्घ्यं च पाद्यं च गृहीत्वा सम्मुखो ययौ
दत्त्वार्घ्यं विधिवत्तस्य प्रणिपत्य मुहुर्मुहुः ६.९९.
स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते
कृत्वा मम प्रसादं च गृहाण मुनिसत्तम पूज्यो लोकत्रयस्यापि निःशेषतपसांनिधिः
अद्य ते भवनं प्राप्य आहारार्थं बुभुक्षितः
तस्मात्त्वं यच्छ मे शीघ्रं भोजनं रघुनंदन
ततस्तं भोजयामास श्रद्धापूतेन चेतसा
लेह्यैश्चोष्यैस्तथा चर्व्यैः खाद्यैरेव पृथग्विधैः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामेश्वरस्थापनप्रस्तावे श्रीरामंप्रति दुर्वासः समागमनवृत्तांतवर्णनंनामैकोनशततमोऽ ध्यायः
दत्ताशीर्निर्गतः पश्चादामंत्र्य रघुनंदनम्
अथ याते मुनौ तस्मिन्दुर्वाससि तदंतिकात्
एतत्खङ्गं गृहीत्वाशु मां प्रभो विनिपातय
ततो रामश्चिरात्स्मृत्वा तां प्रतिज्ञां स्वयं कृताम्
ततोऽतिचिंतयामास व्याकुलेनांतरात्मना
तं दीनवदनं दृष्ट्वा निःष्वसंतं मुहुर्मुहुः
एष एव परो धर्मो भूपतीनां विशेषतः
तस्मात्त्वया प्रभो प्रोक्तं स्वयमेव ममाग्रतः
तदहं चागतस्तात भयाद्दुर्वाससो मुनेः ६.१००.
ततः संमंत्र्य सुचिरं मंत्रिभिः सहितो नृपः
प्रोवाच लक्ष्मणं पश्चाद्विनयावनतं स्थितम्
व्रज लक्ष्मण मुक्तस्त्वं मया देशातरं द्रुतम्
न मया दर्शनं भूयस्तव कार्यं कथंचन
तस्य तद्वचनं श्रुत्वा प्रणिपत्य ततः परम्
अकृत्वापि समालापं केनचिन्निजमंदिरे
ततोऽसौ सरयूं गत्वाऽवगाह्याथ च तज्जलम्
पद्मासनं विधायाथ न्यस्यात्मानं तथात्मनि
अथ तद्राघवो दृष्ट्वा महत्तेजो वियद्गतम्
अथ मर्त्ये परित्यक्ते तेजसा तेन तत्क्षणात् ६.१००.
पपात भूतले कायं काष्ठलोष्टोपमं द्रुतम्
ततस्तु राघवः श्रुत्वा लक्ष्मणं गतजीवितम्