ततो वक्ष्याम्यशेषेण श्रूयतां द्विजसत्तमाः
अन्यस्मिन्दिवसे प्राप्ते स तदा रघुनंदनः
एतत्पुनर्दिनं चान्यद्यत्र तेन प्रतिष्ठितः
संप्राप्तस्तस्य किं दुःखं संजातं तत्प्रकीर्तय
लोकापवादसंत्रस्तस्ततो राज्यं चकार सः ॥ ६.९९.
दशवर्षसहस्राणि दशवर्षशतानि च
तेनोक्तं देवराजेन प्रेषितोऽहं तवांतिकम्
तस्यैवमुपविष्टस्य मंत्रस्थाने महात्मनः
ततः कोपपरीतात्मा दूतः प्रोवाच सादरम्
यथा दंष्ट्राच्युतः सर्पो नागो वा मदवर्जितः
सेयं तव रघुश्रेष्ठ नाज्ञास्ति प्रतिवेद्म्यहम्
तस्य तद्वचनं श्रुत्वा कोपसंरक्तलोचनः ६.९९.
ममात्र संनिविष्टस्य सहानेन प्रजल्पतः स्वहस्तेन न संदेहः सूदयिष्यामि तं द्रुतम्
न हन्मि यदि तं प्राप्तमत्र मे दृष्टिगोचरम्
एवं ज्ञात्वा प्रयत्नेन त्वया भाव्यमसंशयम्
तमोमित्येव संप्रोच्य लक्ष्मणः शुभलक्षणः
देवदूतोऽपि रामेण समं चक्रे ततः परम्
स च व्यापादितो दुष्टः पापस्त्रैलोक्यकंटकः
कृतं सर्वं महाभाग देव कृत्यं त्वयाऽधुना
यदि ते रोचते चित्ते नोपरोधेन सांप्रतम् स्वर्गलोकं परित्यज्य मर्त्यलोकं सुनिंदितम्
प्रोवाचाथ क्षुधाविष्टः क्वासौ क्वासौ रघूत्तमः
तस्मादत्रैव विप्रेंद्र मुहूर्तं परिपालय ॥६.९९.
यावत्सांत्वयते रामो दूतं शक्रसमुद्भवम्
शापं दत्त्वा कुलं सर्वं तद्धक्ष्यामि न संशयः
ममापि दर्शनादन्यन्न किंचिद्विद्यते गुरु
तच्छ्रुत्वा लक्ष्मणश्चित्ते चिंतयामास दुःखितः
एवं स निश्चयं कृत्वा ततो राममुपाद्रवत्
दुर्वासा मुनिशार्दूलो देव ते द्वारि तिष्ठति
तस्य तद्वचनं श्रुत्वा ततो दूतमुवाच तम् अहं संवत्सरस्यांत आगमिष्यामि तेंऽतिके
एवमुक्त्वा विसृज्याथ तं दूतं प्राह लक्ष्मणम्