अवतारं करिष्यामि कृत्वा रूपचतुष्टयम्
देवकार्याय तस्मात्त्वं गृहं गत्वा महीपते
तथेयं या त्वया वापी निर्मिता विमलोदका
अस्यां स्नात्वा नरो भक्त्या य एनां पूजयिष्यति
ततः करिष्यति श्राद्धं यावत्संवत्सरं नृप
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः
ततः स्तोकेन कालेन तस्य पुत्रचतुष्टयम्
कौशल्यानाम विख्याता तस्य भार्या सुशोभना
तथान्या कैकयी नाम तस्य भार्या कनिष्ठिका ६.९८.
सुमित्राख्या तथा चान्या पत्नी या मध्यमा स्थिता
तथान्या कन्यका चैका बभूव वरवर्णिनी
आनृण्यं भूपतिः प्राप्य एवं दशरथस्तदा
अथ राजाऽभवद्रामः सार्वभौमस्ततः परम्
येन रामेश्वरश्चात्र निर्मितो लक्ष्मणेश्वरः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये राजस्वामिराजवापीमाहात्म्यवर्णनंनामाष्टनवतितमोऽध्यायः
रामेश्वरस्तथा सीता तेन तत्र विनिर्मिता
तथा च लक्ष्मणार्थाय निर्मितस्तेन संश्रयः
त्वया सूत पुरा प्रोक्तं रामो लक्ष्मणसंयुतः
श्राद्धं कृत्वा गयाशीर्षे लक्ष्मणेन विरुद्ध्य च ॥ पुनः संप्रस्थितोऽरण्यं क्रोधाविष्टश्च तं प्रति
यत्त्वयोक्तं तदा तेन निर्मितोऽत्र महेश्वरः
ततो वक्ष्याम्यशेषेण श्रूयतां द्विजसत्तमाः
अन्यस्मिन्दिवसे प्राप्ते स तदा रघुनंदनः
एतत्पुनर्दिनं चान्यद्यत्र तेन प्रतिष्ठितः
संप्राप्तस्तस्य किं दुःखं संजातं तत्प्रकीर्तय
लोकापवादसंत्रस्तस्ततो राज्यं चकार सः ॥ ६.९९.
दशवर्षसहस्राणि दशवर्षशतानि च
तेनोक्तं देवराजेन प्रेषितोऽहं तवांतिकम्
तस्यैवमुपविष्टस्य मंत्रस्थाने महात्मनः
ततः कोपपरीतात्मा दूतः प्रोवाच सादरम्
यथा दंष्ट्राच्युतः सर्पो नागो वा मदवर्जितः