तस्य च्छाया द्वितीया सा न नष्टा तत्र भूपते
तथैव पुष्करारण्यं तस्मादमरकण्टकम्
प्रभासं सोमतीर्थं च ततस्तु कृमिजांगले
रुद्रकोटिं विरूपाक्षं ततः पंचनदं नृप परिभ्रमन्महीपाल परिश्रांतो नराधिपः
ततो वर्षसहस्रांते संप्राप्तोऽर्बुदपर्वते
तपस्विसंघान्विविधान्ब्राह्मणान्वेदपारगान् 7.3.31.
प्राप्तो रक्तानुबंधं च तीर्थं तत्रैव पर्वते
तावन्न दृश्यते च्छाया द्वितीया स्त्रीवधोद्भवा
विगन्धता प्रणष्टा च तेजोवृद्धिः पराभवत् स्तूयमानश्चतुर्दिक्षु बंदिभिः प्रस्थितो गृहम्
ततो रक्तानुबंधस्य सोमातिक्रमणं नृप
सा च्छाया दृश्यते देहे द्वितीया नृपसत्तम
ततो दुःखाभिसंतप्तो गतस्तत्रैव तत्क्षणात्
स ज्ञात्वा तीर्थमाहात्म्यं परं पार्थिवसत्तमः दानं दत्त्वा द्विजाग्रेभ्यः प्रविष्टो हव्यवाहनम्
ततो विमानमारुह्य परित्यज्य कलेवरम्
शिवलोकमनुप्राप्ते तस्मिन्पार्थिवसत्तमे
तीर्थेभ्यस्तु परं तीर्थमिदं वै पावनं परम् 7.3.31.
ततः प्रभृति तत्तीर्थं ख्यातं च धरणीतले
रक्तानुबन्धमित्येव तस्मात्तत्कीर्त्त्यते क्षितौ
तत्र संक्रमणे भानोर्यः स्नानं कुरुते नरः
पितृक्षेत्रे गयायां च श्राद्धं यः कुरुते नरः
चन्द्रसूर्योपरागे वा गोदानं नृपसत्तम
पुलस्त्य उवाच महाविनायकं गच्छेत्ततः पार्थिवसत्तम
ययातिरुवाच कथं महत्त्वमगमत्पूर्वं तत्र विनायकः
विनोदार्थं चकाराथ बालकं सुकुमारकम्
लेपाभावाच्छिरोहीनं शेषांगावयवं नृप
लेपमानय भद्रं ते शिरोऽर्थं स्कन्द सत्वरम्
ततो गौरीसमादेशाल्लेपालब्धौ नृपोत्तम
तस्मिन्नियोजयामास गात्रे लेपसमुद्भवे
ब्रुवंत्याश्चापि पार्वत्या मा मेति च मुहुर्मुहुः
विशेषान्नायकत्वं च गात्रेभ्यः समजायत