पितॄणां तेन ते नित्यमासनेऽभ्युक्षणं कृतम्
आत्मानं नरकात्त्रातुं पुंसंज्ञाच्च तथा नृप ६.९७.
दुःखेन महता युक्तो लज्जयाऽधोमुखः स्थितः अमात्यानां निजं राज्यमर्पयामास सत्वरः
ततः प्रोवाच तान्सर्वांस्तपः कार्यं मयाऽधुना
एतद्राज्यं प्रयत्नेन रक्षणीयं यथाविधि
क्रियते पुत्रहीनस्य किं राज्येन धनेन वा
वयं रक्षां करिष्यामस्तव राज्ये समंततः
कार्तिकेयपुरं गत्वा यत्र पित्रा पुरा तव
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्र माहात्म्ये दशरथकृततपःसमुद्योगवर्णनंनाम सप्तनवतितमोऽध्यायः
हाटकेश्वरजं क्षेत्रं संप्राप्तो हर्षसंयुतः
तत्रागत्य ततो देवीं पित्रा संस्थापिता पुरा
ततोऽन्यानि च मुख्यानि दृष्ट्वा चायतनानि सः
प्रासादं कारयामास देवदेवस्य चक्रिणः
तस्याग्रे कारयामास वापीं स्वच्छोदकान्विताम्
उदकेन ततस्तस्या देवाराधनतत्परः
ततो वर्षशतेऽतीते तस्य तुष्टो जनार्दनः
प्रोवाच दर्शनं गत्वा पक्षिराजं समाश्रितः
अपि ते दुर्लभं काममहं दास्यामि कृत्स्नशः
तपसो देहि मे पुत्रांस्तस्माद्वंशविवृद्धिदान् ॥ ६.९८.
अन्यत्सर्वं सुराधीश ध्रुवमस्ति गृहे स्थितम्
अवतारं करिष्यामि कृत्वा रूपचतुष्टयम्
देवकार्याय तस्मात्त्वं गृहं गत्वा महीपते
तथेयं या त्वया वापी निर्मिता विमलोदका
अस्यां स्नात्वा नरो भक्त्या य एनां पूजयिष्यति
ततः करिष्यति श्राद्धं यावत्संवत्सरं नृप
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः
ततः स्तोकेन कालेन तस्य पुत्रचतुष्टयम्
कौशल्यानाम विख्याता तस्य भार्या सुशोभना
तथान्या कैकयी नाम तस्य भार्या कनिष्ठिका ६.९८.
सुमित्राख्या तथा चान्या पत्नी या मध्यमा स्थिता