रक्षयित्वा जगत्सर्वं शनैश्चर कृताद्भयात्
ततः प्रभृति नित्यं स सन्ध्याकाल उपस्थिते ६.९७.
गीतं दृष्ट्वा च नृत्यं च तानादिविहितं शुभम्
स्वयं च कीर्तयित्वाथ प्रयाति निजमंदिरम्
विमानवरमारुह्य हंसबर्हिणनादितम्
यदायदा स निर्याति शक्रस्थानान्निजालयम्
शक्रादेशात्तदा वेत्ति न स भूपः कथंचन कथयामास तत्सर्वमभ्युक्षणसमुद्भवम्
वृत्तांतं तस्य राजर्षेस्तस्यैव गृहमागतः
तच्छ्रुत्वा नारदेनोक्तं श्रद्धेयमपि भूपतिः
तथापि कौतुकाविष्टो गत्वा शक्रनिवेशनम्
अलक्ष्यं वीक्षयामास स्वासनं दूरमास्थितः
ततः शक्रसमादेशादुत्थाय सुरकिंकरः ६.९७.
तद्दृष्ट्वा कोपसंपन्नः स राजाऽभ्येत्य वासवम्
किं मया निहता विप्राः किं वा विप्रसमुद्भवम्
किं वा नष्टोऽस्मि संग्रामे दृष्ट्वा शत्रून्समागतान्
मम राज्येऽथवा शक्र दुर्बलो बलवत्तरैः
किं वा राज्ये मदीये च जायते योनिविप्लवः
किं वा दुर्जनवाक्येन दूषितो दोषवर्जितः
किं वा चौरोऽथ पापो वा गृहीतो दोषवान्स्वयम्
किंस्विन्मया परित्यक्तः कोऽप्यत्र शरणागतः
कस्य वा पृष्ठमांसानि भक्षितानि मया क्वचित्
किं वा दानं मया दत्त्वा ब्राह्मणाय महात्मने ६.९७.
किं वा राज्ये मदीये च दीनानां प्रपतंति च
दैवं वा पैतृकं वापि किं वा कर्म गृहे मम
यत्त्वया क्रियते नित्यं तोयैरभ्युक्षणं मम
न राष्ट्रे च कुले गेहे भृत्यवर्गे विशेषतः
परं शृणु प्रवक्ष्यामि यत्ते पापं भविष्यति
अपुत्रस्य गतिर्नास्ति न च स्वर्गं प्रपद्यते
द्वेष्यतां याति देवानां पितॄणां च विशेषतः
आनृण्यं समवाप्नोति पितॄणां स तदा ध्रुवम्