तस्मात्त्वया महत्कर्म कृतमीदृक्सुदुष्करम्
तस्मा त्तव कृते नाहं भेदयिष्यामि रोहिणीम्
वरं वरय चास्माकं तस्मादद्य भविष्यति
तस्याऽन्यदिवसं यावत्पीडा कार्या न च त्वया
तिलदानं करोत्येवं लोहदानं च यस्तव
रक्षणीयः सुकृच्छ्रेषु संकटेषु सदैव हि
यः कुर्याच्छांतिकं सम्यक्तिलहोमं च भक्तितः
तस्य सार्धानि वर्षाणि सप्त कार्या प्रयत्नतः
शनैश्चरो महीपालवचनाद्द्विजसत्तमाः ॥ ६.९६.
एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं सुविस्तरात् संवादं रोहिणीभेदे सञ्जातं समुपस्थिते
यश्चैतत्पठते नित्यं शृणुयाद्यो विशेषतः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशरथशनैश्चरसंवादवर्णनंनाम षण्णवतितमोऽध्यायः
भिनत्ति वचनात्तस्य राज्ञो दशरथस्य च
तद्वृत्तांतं समाकर्ण्य तस्य शक्रः प्रहर्षितः
अत्यद्भुततरं कर्म त्वयैतत्पृथिवीपते
अत एव हि संतुष्टिः सञ्जाताद्य तवोपरि
शाश्वती सर्वकृत्येषु परमां लोकसंस्थिताम्
एवं भवतु राजेंद्र त्वया सह सदा मम
त्वया सदैव मे पार्श्वे सभायां देवसंनिधौ
एवमुक्त्वा सहस्राक्षो जगाम त्रिदिवालयम्
रक्षयित्वा जगत्सर्वं शनैश्चर कृताद्भयात्
ततः प्रभृति नित्यं स सन्ध्याकाल उपस्थिते ६.९७.
गीतं दृष्ट्वा च नृत्यं च तानादिविहितं शुभम्
स्वयं च कीर्तयित्वाथ प्रयाति निजमंदिरम्
विमानवरमारुह्य हंसबर्हिणनादितम्
यदायदा स निर्याति शक्रस्थानान्निजालयम्
शक्रादेशात्तदा वेत्ति न स भूपः कथंचन कथयामास तत्सर्वमभ्युक्षणसमुद्भवम्
वृत्तांतं तस्य राजर्षेस्तस्यैव गृहमागतः
तच्छ्रुत्वा नारदेनोक्तं श्रद्धेयमपि भूपतिः
तथापि कौतुकाविष्टो गत्वा शक्रनिवेशनम्