तत्पुत्रश्चाभवद्राजा मंत्रिभिस्तु पुरस्कृतः
यो नित्यमगमत्स्वर्गे वासवं रमते सदा
गृहे यस्य स्वयं विष्णुर्भूत्वा चैव चतुर्विधः
तेनागत्यात्र सत्क्षेत्रे तोषितो मधुसूदनः
तस्यापि विश्रुता वापी स्वयं तेन विनिर्मिता
तस्यां यः कुरुते श्राद्धं संप्राप्ते पञ्चमीदिने
भिंदानस्तोषितस्तेन कथं नारायणो वद
सूत उवाच तस्मिञ्छासति धर्मज्ञे स्वधर्मेण वसुन्धराम्
बहुक्षीरप्रदा गावः सस्यानि गुणवंति च
कस्यचित्त्वथ कालस्य दैवज्ञैस्तस्य भूपतेः ६.९६.
तस्यानंतरमेवाशु दुर्भिक्षं संभविष्यति यया संपत्स्यते सर्वं भूतलं गतमानवम्
तेषां तद्वचनं श्रुत्वा स राजा कुपितोऽभ्यगात्
तस्य तुष्टेन संदत्तं विमानं कामगं पुरा
ततः सूर्यपथं मुक्त्वा ततश्चंद्रस्य पार्थिवः १४ तत्र बाणं समारोप्य शनैश्चरमुपाद्रवत्
त्यजैनं रोहिणीमार्गं सांप्रतं त्वं शनैश्चर
एतेन निशिताग्रेग शरेणा नतपर्वणा
तस्य तद्वचनं श्रुत्वा तादृग्रौद्रतमं महत्
कस्त्वं ब्रूहि महाभाग मम मार्गं रुणत्सि यः
राजोवाच अहं दशरथो नाम सूर्यवंशोद्भवो नृपः ६.९६.
मम यत्त्वं प्रकोपाढ्यो मन्मार्गं हंतुमिच्छसि
सांप्रतं मम दैवज्ञैर्वाक्यमेतदुदाहृतम्
तस्मिन्मन्द त्वया भिन्ने न वर्षति शतक्रतुः
जाते वृष्टिनिरोधेऽथ जायंतेऽन्नानि न क्षितौ
जनोच्छेदे ततो जाते अग्निष्टोमादिकाः क्रियाः
एतस्मात्कारणाद्रुद्धो मार्गस्ते सूर्यसंभव
तुष्टोऽहं तव वीर्येण न त्वन्येन महीपते
न केनचित्कृतं कर्म यदेतद्भवता कृतम्
नाहं पश्यामि भूपाल कथंचिदपि तूर्ध्वतः
जातमात्रेण बालेन मया पादौ निरीक्षितौ ६.९६.
न त्वया पुत्र द्रष्टव्यं किंचिदेव कथंचन