यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये
एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति
यत्र संस्थो महीपः स प्रजापालनतत्परः
अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम्
तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः
अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः
यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः ६.९५.
अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया
ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम्
रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम्
प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः
तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो
परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम्
यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप
तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम
नातः परं त्वया स्थेयं मर्त्यलोके कथंचन
पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च ॥ ६.९५.
तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा
यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम्
तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम्
एवमुक्तस्ततस्तेन भगवांस्त्रिपुरांतकः
अब्रवीच्च सुतस्तत्र स्वयं राजा भविष्यति
त्वं चागच्छ मया सार्धमद्यैव मम मंदिरे
अद्य माघचतुर्दश्यां शुक्लायामपरोऽपि यः
करिष्यति प्रवेशेन प्राणत्यागं नृपोत्तम
स्नानं वा पार्थिवश्रेष्ठ यः करिष्यति मानवः
एवमुक्त्वा तमादाय नृपं भार्यासमन्वितम् प्रविवेश जले तस्मिन्देवीकुण्डसमुद्भवे ॥ ६.९५.
ततश्च मंदिरं नीतः स्वकीयं द्विजसत्तमाः ९१ अद्यापि तिष्ठते तत्र जरामरणवर्जितः
एवं तत्र समुद्भूता सा देवी परमेश्वरी
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः