अजापालेन भूपेन तत्सर्वं विफलीकृतम्
नाधयो व्याधयस्तत्र न पापानि महीतले
तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः
अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम्
कथं निवारणं तत्र क्रियते कश्च निग्रहः
तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ६.९५.
तन्मयापि यथा चास्य प्रसादः सुरसत्तम
एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः येन तत्समये प्राप्ते तं नयामि निजालयम्
यम उवाच पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः
यावत्कालं सुरश्रेष्ठ शून्ये जाते स्व आश्रये
एवमुक्ते यमेनाथ तं विसृज्य गृहं प्रति
यत्र संस्थो महीपः स प्रजापालनतत्परः
अजास्तास्तं च संवीक्ष्य व्याघ्रं रौद्रवपुर्द्धरम्
तस्य यत्नपरस्यापि रक्षमाणस्य भूपतेः
अजानां कदनं दृष्ट्वा ततः स पृथिवीपतिः
यत्तस्य तुष्टया दत्तं चंडं चंडार्चिषा समम् शनैःशनैः प्रजग्राह स्ववक्त्रेण महेश्वरः ६.९५.
अस्त्राभावात्ततस्तूर्णं ध्रियमाणेऽपि कांतया
ततस्तस्यांगसंस्पर्शान्मुक्त्वा व्याघ्रतनुं च ताम्
रुंडमालावरां दिव्यां सखट्वांगां सपन्नगाम्
प्रोवाचाथ स्तुतिं कृत्वा विनयावनतः स्थितः
तिरस्कारस्तथा दत्तस्तत्सर्वं क्षम्यतां विभो
परितुष्टेन ते कर्म दृष्ट्वा चैवातिमानुषम्
यथा कृतं त्वया राज्यं प्रजाः संरक्षिता नृप
तस्माद्गच्छ मया सार्धं पाताले पार्थिवोत्तम
नातः परं त्वया स्थेयं मर्त्यलोके कथंचन
पुत्रं राज्ये प्रतिष्ठाप्य मंत्रिणां संनिवेद्य च ॥ ६.९५.
तथाहं देव देव्या च प्रोक्तः संतुष्टया पुरा
यदा त्वं त्यजसि प्राज्ञ मर्त्यलोकं सुदुस्त्यजम्
तानि चार्पय मे भूयो येनानृण्यं व्रजाम्यहम्