तथाप्येवं करिष्यामि तव दास्यामि कृत्स्नशः
गृह्यन्ते येन ते सर्वे व्याधयोऽपि सुदारुणाः
यदि दृष्टिपथात्तुभ्यं क्वचिद्यास्यंति दूरतः
यदा त्वं पृथिवीपाल स्वर्गं यास्यसि भूतलात्
सर्वे मंत्रास्तथाऽस्त्राणि ममवाक्यादसंशयम्
बाढमित्येव तेनोक्ते तत्क्षणाद्द्विजसत्तमाः
ज्ञानसंपत्प्रयुक्तानि यादृशानि महात्मना
व्याधयो यैश्च गृह्यंते मुच्यंते स्वेच्छया सदा ६.९५.
ततस्तं सकलं प्राप्य प्रसादं चंडिकोद्भवम्
एकां मुक्त्वा निजां भार्यामेकं दशरथं सुतम्
अजारूपान्स्वयं पश्चाद्यष्टिमादाय रक्षति
गुप्तोऽपि नापराधः स्यात्कस्यचित्प्रकटः कुतः
तद्रूपो निग्रहस्तस्य तत्क्षणादेव जायते
अदृष्टान्यपि शस्त्राणि तानि कुर्वंति तत्क्षणात् कुर्वन्ति मनुजास्तेषां चक्रे वैवस्वतो ग्रहम्
न तत्र भयसंत्रस्तस्ततः पापसमाचरेत्
ततस्ते पापनिर्मुक्ता लोकाः संशुद्धगात्रकाः
एवं स्थितेषु लोकेषु गतपापामयेषु च
न कश्चिन्नरकं याति न च मृत्युपथं नरः ६.९५.
व्यवहारे ततो नष्टे यमलोकसमुद्भवे
ततो वैवस्वतो गत्वा ब्रह्मणः सदनं प्रति
अजापालेन भूपेन तत्सर्वं विफलीकृतम्
नाधयो व्याधयस्तत्र न पापानि महीतले
तस्मात्कुरु सुरश्रेष्ठ पुनरेव यथा पुरा
तस्य तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः
अथाब्रवीत्प्रहस्योच्चैस्त्रिनेत्रश्चतुराननम्
कथं निवारणं तत्र क्रियते कश्च निग्रहः
तस्मात्तेन महीपेन यस्मान्मार्गः प्रदर्शितः ६.९५.
तन्मयापि यथा चास्य प्रसादः सुरसत्तम
एवमुक्त्वा चतुर्वक्त्रं यमं प्राह ततः शिवः येन तत्समये प्राप्ते तं नयामि निजालयम्
यम उवाच पञ्चवर्षसहस्राणि तस्यातीतानि चायुषः