तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम्
हितकृत्सर्वलोकस्य यथा माता यथा पिता
चिंतितं मनसा पश्चात्स्वयमेव महात्मना न कृतं न करिष्यंति ये भविष्यन्त्यतः परम्
एष एव परो धर्मो भूपतीनामुदाहृतः
यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः
न करेण विना भूपा हस्त्यश्वादिबलं च यत्
विना तेन स गम्यः स्यान्नीचानामपि सत्वरम्
तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ६.९५.
करानगृह्णता तेन लोकान्रंजयता सदा
एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम्
अत्र भूमितले विप्र सर्वेषां तीर्थमुत्तमम् वासुदेवोऽथवा ब्रह्मा ह्येतच्छीघ्रं वदस्व मे
येनाहं सर्वलोकस्य हितार्थं तप आददे
तिस्रः कोट्योर्धकोटी च तीर्थानामिह भूतले
अष्टषष्टिस्तथा राजन्क्षेत्राणामस्ति भूतले
तथा सर्वे सुरास्तुष्टा ब्रह्मविष्णु शिवादयः
हाटकेश्वरदेवस्य क्षेत्रं पातकनाशनम्
शीघ्रमाराधिता सम्यक्छ्रद्धायुक्तैर्नरैर्भुवि आराधय महाभाग द्रुतं सिद्धिमवाप्स्यसि
एवमुक्तः स तेनाथ गत्वा तत्क्षेत्रमुत्तमम् ६.९५.
ब्रह्मचर्यपरो भूत्वा शुचिर्व्रतपरायणः
एवमाराध्यतस्तत्र गन्धपुष्पानुलेपनैः
देव्युवाच परितुष्टास्मि ते वत्स व्रतेनानेन नित्यथः
तद्ब्रूहि येन ते सर्वं प्रकरोमि हृदि स्थितम्
येन तेषां भवेत्सौख्यं मत्प्रसादादनुत्तमम्
तस्माद्देहि महाभागे ज्ञानयुक्तानि भूरिशः
यानि जानंति भूपृष्ठे मम पार्श्वे स्थितान्यपि ॥ अपराधं सदा लोके परदारादि यत्कृतम्
अनुरूपं ततस्तस्य पातकस्य विनिग्रहम्
मंत्रग्रामं तथा देवि मम देहि पृथग्विधम्
येन स्युर्मनुजाः सर्वे मम राज्ये सुखान्विताः ६.९५.
नाहं देवि करिष्यामि हस्त्यश्वरथसंग्रहम् गृहीतैः सर्वलोकानां तस्मात्तन्न ममेप्सितम्
प्रारब्धं यन्न केनापि कृतं न च करिष्यति