अनेन करसंस्थेन तव कोपः कथंचन
यदि चैनं मया मुक्तं कुठारं च द्विजोत्तमाः
नापराधमिमं शक्तः सोढ़ुं चाहं कथंचन
तथापि नास्ति ते शांतिर्मुक्तेऽप्यस्मिन्द्विजोत्तमाः
अस्माकं तत्र भंक्त्वाशु पिंडं कृत्वा समर्पय
येन रक्षामहे सर्वे परमं यवमाश्रिताः
तेषां तद्वचनं श्रुत्वा रामः शस्त्रभृतां वरः
ततः स ब्राह्मणेंद्राणामर्पयामास सादरम्
वयं संरक्षयिष्यामः पूजयिष्याम एव हि
यथा शक्तिमयी कीर्तिः स्कन्दस्यात्र प्रतिष्ठिता ६.९४.
भ्रष्टराज्यस्तु यो राजा एनामाराधयिष्यति
विद्याकृते द्विजो वा यः सदैनां पूजयिष्यति
अपुत्रो वा नरो योऽथ नारी वा पूजयिष्यति
उपवासपरो भूत्वा यश्चैनां पूजयिष्यति
एवं श्रुत्वा ततो रामस्तेषामेव द्विजन्मनाम्
तेऽपि विप्रास्ततस्तस्याश्चक्रुः प्रासादमुत्तमम्
प्राप्नुवंति च तत्पार्श्वात्कामानेव हृदि स्थितान् ६.९४.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये लोहयष्टिमाहात्म्यवर्णनं नाम चतुर्णवतितमोऽध्यायः
अजापालेन भूपेन स्थापिता पापनाशनी
तां च शुक्लचतुर्दश्यामजापालेश्वरीं नरः स प्राप्नोतीप्सितान्कामान्दुर्लभा सर्वमानवैः
तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम्
हितकृत्सर्वलोकस्य यथा माता यथा पिता
चिंतितं मनसा पश्चात्स्वयमेव महात्मना न कृतं न करिष्यंति ये भविष्यन्त्यतः परम्
एष एव परो धर्मो भूपतीनामुदाहृतः
यथायथा करं भूपास्ता मां गृह्णंति लोलुपाः
न करेण विना भूपा हस्त्यश्वादिबलं च यत्
विना तेन स गम्यः स्यान्नीचानामपि सत्वरम्
तस्मान्मया विनाप्याशु नागैश्चैव नरैस्तथा ६.९५.
करानगृह्णता तेन लोकान्रंजयता सदा
एवं चित्ते समाधाय वसिष्ठं मुनिपुंगवम्