ततः प्रोवाच वचनमंबरीषं चतुर्भुजः
येन कुष्ठविनिर्मुक्तस्तत्क्षणादेव जायते
एतस्मिन्नेव काले तु समानीय सुतं नृपः ६.९३.
ततः स बालकः सद्यः स्नातमात्रो द्विजोत्तमाः
ततः प्रणम्य तं देवं हर्षेण महताऽन्वितः
तस्मिन्गते महीपाले सपुत्रे तत्क्षणाद्धरिः
एतस्मात्कारणात्पूर्वं तत्तोयं सर्वपापहृत्
अद्यापि तज्जलस्पर्शात्सुपवित्रो धरातले तस्य नाशं द्रुतं यांति गलगंडादिका इह
व्याधयोपि महारौद्रा दद्रुपामा समुद्भवाः
निष्कामस्तु पुनर्मर्त्यो यः स्नानं तत्र भक्तितः
यस्मिन्दिने समानीता सा गंगा तत्र विष्णुना
तथान्येऽपि दिने तस्मिन्यदि तोयमवाप्य च ६.९३.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गोमुखतीर्थमाहात्म्यवर्णनंनाम त्रिनवतितमोऽध्यायः
तथान्या लोहयष्टिस्तु तस्मिन्क्षेत्रेऽतिशोभना
तां दृष्ट्वा मानवः सम्यगुपवासपरायणः
निर्मिता लोहयष्टिः सा तत्रोत्सृष्टा च सा कुतः
गतामर्षो द्विजेन्द्राणां दत्त्वा यज्ञे वसुन्धराम्
ततः संप्रस्थितो हृष्टो धृत्वा मनसि सागरम्
तदा स मुनिभिः प्रोक्तः सर्वैस्तत्क्षेत्रवासिभिः
रामराम महाभाग यद्धारयसि पाणिना
अनेन करसंस्थेन तव कोपः कथंचन
यदि चैनं मया मुक्तं कुठारं च द्विजोत्तमाः
नापराधमिमं शक्तः सोढ़ुं चाहं कथंचन
तथापि नास्ति ते शांतिर्मुक्तेऽप्यस्मिन्द्विजोत्तमाः
अस्माकं तत्र भंक्त्वाशु पिंडं कृत्वा समर्पय
येन रक्षामहे सर्वे परमं यवमाश्रिताः
तेषां तद्वचनं श्रुत्वा रामः शस्त्रभृतां वरः
ततः स ब्राह्मणेंद्राणामर्पयामास सादरम्
वयं संरक्षयिष्यामः पूजयिष्याम एव हि
यथा शक्तिमयी कीर्तिः स्कन्दस्यात्र प्रतिष्ठिता ६.९४.